________________
राजति कमले स्थितं यद्वा प्रवरा रचना यस्य परागो अन्तर्मध्ये यस्य एवंविधे कमले स्थितं, नयनानामानन्दकत्वाद् भूषणकरं । प्रभासमानं स्वयं दीप्यमानं प्रभया समानं वा अतः सर्वा दिशो दीपयन्तम् । सौम्यलक्ष्म्याः प्रशस्तश्रियो निभेलणं गृहं । सर्वैः पापैरशिवैः परिवर्जितं । अत एव शुभं भासुरं दीसं । श्रिया त्रिवर्गसंपच्या वरं श्रेष्ठं तत्मासिसुचकत्वात् । सव्वोउ - सर्वर्तुजानां सुरभिकुसुमानामासक्तं-कण्ठस्थं माल्यदाम प्रशस्तमाला यत्र, दामशब्दः परोऽपि प्रशस्यार्थः । रयय-रजतशब्देन रुप्यमुच्यते । तथाप्यत्र जच्चकंचणुज्जलंतरुवमित्युक्तेः कनकमेव ग्राह्यं । ९ । ४१ ॥
तओ पुण रविकिरणतरुणवोहिअसहस्सपत्तसुरभितरपिंजरजलं, जलचरपहकरपरिहत्थगमच्छपरिभुज्जमाणजलसंचयं, महंतं जलंतमिव कमलकुवलयउप्पलतामरसपुंडरी ओरुसप्पमाणसिरिस - मुदएणं रमणिज्जरूवसोभं, पमुइअंतभमरगणमत्तमहुअरिंगणुक्करोलिज्झमाणकमलं, २५० कार्यबकबलाहयचक्ककलहंससारसगव्वियसउणगणमिहुणसेविज्जमाणसलिलं, पउमिणिपत्तोवलग्गजलबिंदुनिचयचित्तं, पिच्छइ । सा हि अयनयणकंतं, पउमसरं नाम सरं, सररुहाभिरामं ॥१०॥४२॥
तओ पुणो रविकिरण इत्यादित. सररुहाभिराममित्यन्तम् । तत्र ततः पद्मसरः पश्यति । तरुणशब्दस्येह सम्बन्धात् तरुणरविकिरणैर्बोधितानि यानि सहस्रपत्राणि - पद्मानि तैः सुरभितरं
१३