________________
कल्प
- पश्यति, जात्यकनकलष्ठिप्रतिष्ठित, समूहोऽस्त्येषामिति समूहा अभ्रादित्वाद् अप्रत्यये समूहवद्भिः प्रचु- दीपिका
रैरित्यर्थः, नीलादि वर्णैःसुकुमारैरुल्लसद्भिर्मयूरपिच्छैः कृता मुईजा इव-केशा इव यस्य स तथा तं । अहिअ-अधिकसश्रीकमधिकसशोभं । फालिअ-स्फटिकं, शङ्खोऽङ्को-रत्नविशेषः, कुन्दं, दकरजांसि, रजत्कलशस्तद्वत् पाण्डुरेण, मस्तकस्थेन सिंहेन राजमानेन भेत्तुं गगनमण्डलं प्रति व्यवसितेनेव. कृतोद्यमेनेव अत्युच्चत्वादुत्प्रेक्षा इदृशेन सिंहेन राजमानमित्यर्थः । शिवमऊय-शिवः सौम्यो मृदुरःचण्डो यो मारुतो-वायुस्तस्य लयः-श्लेषस्तेनाहत-अन्दोलितम् अतएव कम्पमानमितस्ततो नृत्य न्तम्, यद्वा लयाहयत्ति आहतविशेषणस्य परत्वे शिवमृदुकमारुताहतलतावत्कम्पमानं । ८॥४०॥ तओ पुणो जच्चकंचगुज्जलंतख्वं, निम्मलजलपुन्नमुत्तमं, दिप्पमाणसाह, कमलकलावपरिरायमाणं, पडिपुन्नयसव्वमंगलभेअसमागम, पवररयणपरायतकमलट्ठिअं, नयणभूसणकरं, पभा
समाणं, सव्वओ चेव दीवयंतं, सोमलच्छीनिमेलणं, सव्वपावपखिज्जिअं, सुभं, भासुरं, सि| खिरं, सव्वोउअसुरभिकुसुमआसत्तमल्लदामं, पिच्छइ, सा रययपुन्नकलसं । ९ ॥ ४१॥
तओपुणो जच्चकंचणेत्यादितः.......पुण्णकलसमित्यन्तम्, । तत्र ततः पुन रजतपूर्णकलशं पश्यति, कीदृशं ? जच्च-जात्यकाञ्चनेनोत्पाबल्येन ज्वलत्-दीप्यमानं रुपं यस्य, कमल. कमलकलापेन परिसमन्तात् राजमानं, पडिपुन्नय प्रतिपूर्णकानां सर्वमङ्गलभेदानां समग्रमेलापकस्थान, पबर प्रवररत्नैः ।