________________
गुहिरवितिमिरकर, पमाणपक्खंतरायलेहं, कुमुअवणविबोहगं, निसासोहगं, सुपरिमट्टदप्पणतलोवमं, हंसपडुवन्नं, जोइसमुहमंडगं, तमरिपुं, मयणसरापूरं, समुद्ददगपूरगं, दुम्मणं जणं दइअवज्जिअं पायएहिं सोसयंतं, पुणो सोमचारुस्वं, पिच्छइ । सा गगणमंडलविसालसोमचंक. म्ममाणतिलयं, रोहिणिमणहिअयवल्लहं, देवी पुन्नचंदं समुल्लसंतं । ६ ॥ ३८॥
व्याख्या-ससिं चेत्यादितः..........समुलसंतमित्यन्तम् । तत्र ततः पुनः शशिनं च पश्यति । कीदृशं ? गोखीर-गोक्षीरफेनदकरजोरजतकलशपाण्डुरं, सुहं-शुभं, हियनयणकतं-हृदयनयनकान्तं, पडिपुण्णं-प्रतिपूर्ण षोडशकलासंयुक्तमित्यर्थः । तिमिर-तिमिरनिकरेण घणगुहिर-धनगम्भीरस्य वननिकुञ्जादेः वितिमिरं-तिमिराभावकरणशीलं, पमाणपक्खं-प्रमाणपक्षयोर्वर्षादिप्रमाणहेत्वोः शुक्लकृष्णपक्षयोरन्तर्मध्ये राजन्ती लेखाः यस्याथवा चान्द्रमासापेक्षया प्रमाणपक्षयोरन्ते पूर्णमास्यां रागदाहर्षदायिन्यो लेखाः-कला यस्य तं परिपूर्णकलमित्यर्थः । कुमुदवनविबोधकं, निशायाः शोभकं, सुपरिमृष्टेन दर्पणतलेनोपमा यस्य तं, हंसस्येव पटुः-श्वेतवर्णो यस्य तं, ज्योतिषां मुखमण्डकं, तमोरिपं. मदनस्य शरापूरमिव-तूणीरमिव, समुद्रस्य दकं-नीरं पूरयतीति चन्द्रिकया तदुल्लासात् तं, दुर्मनस्कं, दयितवजितं जन-विरहिणीलोकं, पादकैः-किरणैः-शोषयन्तं तापातिरेककरणात, सौम्य-प्रशस्तं चारु-र