SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ कल्प प्रदीपिका लिआजाइजूहिअकोलकोज्जकोरिंटपत्तदमणयनवमालिअवउलतिलयवासंतिअपउमुप्पलपाडलकुंदाइमुत्तसहकारसुरभिगंधिं, अणुवममणोहरेणं गंधेणं दसदिसाओ वि वासयंतं, सव्वोउअसुरभिकुसुममल्लधवलविलसंतकंतबहुवन्नभत्तिचित्तं, छप्पयमहुअरिभमरगणगुमगुमायंतनिलिंतगुंजंतदेसभागं, दाम, पिच्छइ, नभंगणतलाओ ओवयंत । ५ ॥ ३७॥ ___ तओ पुणो सरसेत्यादितः........"ओवयंतमित्यन्तम् । तत्र ततः पुनर्नभस्तलादवपतदाम पश्यति| कीदृशं ? सरस-सरसकुसुमं यन्मन्दारदाम तेन रमणीयभूतं रम्यं जातं । चंपगासोग चम्पका-| शोकादीनां सहकारान्तानां यः सुरभिर्गन्धः सोऽस्त्यस्मिन् तत् । अणुवम-अनुपममनोहरेण गन्धेन व्यवहितस्याप्यपेः सम्बधादशापि दिशो वासयत् । सव्वोउअ-सर्वर्तुकं यत्सुरभिकुसुम- 1 माल्यं तेन धवलं तच्च तद्विलसत्कान्तबहवर्णभक्तिचित्रं चेति विशेषणकर्मधारयः, अनेनधवलर्णस्याधिक्यं लक्ष्यते । छप्पयमहुअरि-प्राकृतत्वात् प्राग्वविशेषणानां परत्वे गुमगुमायमानो वनन् निलीयमानः-स्थानान्तरादागत्य च तत्र लीयमानो गुचन-शब्दविशेषं कुर्वश्च | षट्पदमधुकरीभ्रमराणां-वर्णादिभेदभिन्नभ्रमरजातोनां गणः देशभागे यस्य दाम्नस्तत् । ५॥ ३७॥ ससिं च गोखीरफेणदगरयरययकलसपंडुरं, सुहं, हिअयनयणकंतं, पडिपुन्नं, तिमिरनिकरघण
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy