________________
पकेनोपलक्षितां । उरत्थदीणार - उरः स्थदीनारमालया विरचितेन विराजितेन वा कण्ठमणिसूत्रकेणकण्डस्थरत्नमयसूत्रेण वोपलक्षितां । कुण्डल आर्षत्वादंसोपसक्तं स्कन्धलग्नं यत्कुण्डलयुगलं तस्योलसन्ती - शोभमाना सती प्रशस्ता प्रभा यत्र, एवंविधेन शोभागुणसमुदयेन किंलक्षणेन आननकौदुम्बिकेन - यथा किल राजा कौटुम्बिकैः शोभते एवमाननमपि शोभागुणसमुदायेनेति मुखनृपस्य कौटुविकप्रायेणेत्यर्थः । कमलवदमले विशाले रमणीये लोचने यस्याः । कमल पज्जलंत प्राग्वत् परनिपाते प्रज्वलन्तौ दीतिमन्तौ यौ करौ तद्गृहीताभ्यां कमलाभ्यां मुक्तं-क्षरतोयं - मकरन्दरसो यस्याः । लीला लीलया न पुनः स्वेदापनोदार्थं स्वेदस्यैवाऽभावात् वातार्थ वातोत्क्षेपार्थं कृतः यः पक्षकस्तालवृन्तं तेनोपलक्षितां, यहा लीलायै शोभार्थं परैः सह स्पर्द्वया यो वादस्तत्र कृतो विहितो यः पक्षः - प्रतिज्ञापरिग्रहः कप्रत्यये तेन सुविशदः - स्पष्टो न पुनर्जटाजूटवदविवृतः कृष्णः -श्यामो घनोऽविरलः सूक्ष्मः-तलिनो लम्बमानः केशहस्तः केशपाशो यस्यास्तां ॥ ४ ॥ ३६ ॥
[ ॥ इति द्वितीयं व्याख्यानं ॥ ]
[॥ अथ तृतीयं व्याख्यानं ॥ ]
तओ पुणो सरसकुसुममंदारदामरमणिज्जभृअं, चंपगासोगपुन्नागनागपिअंगुसिरीसमुग्गरम