________________
कल्प
दीपिका
णयोः कोमला-मृदवो वरा लक्षणोपेता अङ्गुलयो यस्याः । कुरुविंदावत्त-कुरुविंदावत-भूषणविशेष- आवर्तविशेषो वा तद्वत् वृत्तौ वृत्तानुपूर्वे च जङ्थे यस्याः। निगूढजानु गुप्तजानु, गयवरत्ति गजवरकर गजेन्द्रशुण्डा तत्सदृशे पीवरे पुष्टे उरु यस्याः । चामीकरत्ति चामीकररचितमेखलायुक्तं कान्तं विस्तीर्ण श्रोणिचक्रं यस्याः। जच्चंजण जात्याअन-भ्रमरजलप्रकर इव वर्णेन, ऋज्वी-सरला, समाs विषमा,संहिता-निरंतरा, तनुका-सूक्ष्मा, आदेया-सुभगा, लटभा-सविलासा, सुकुमालमृदुका-सुकुमारेभ्योऽपि शिरीषपुष्पादिभ्योऽपि मृदुका रमणीया-मनोज्ञा रोमराजी यस्याः । नाभीमण्डल-नाभीमण्डलेन सुन्दरं-विशालं प्रशस्तं सुलक्षणत्वाजघनं यस्याः। करयल-करतलेन-मुष्टिना माइअत्तिमेयं मानं वा प्रशस्तत्रिवलीकं मध्यं यस्याः। नाणामणि-नानाप्रकाराणि यान्याभरणानि भूषणानीति योज्यं । मणयः-चन्द्रकान्ताद्याः, रत्नानि-वैडूर्यानि, कनकं-पीतस्वर्ण, तपनीय-रक्तस्वर्ण,तच जात्यत्वाबिमलमहच्छवाभ्यां विशेषितं तेषां यान्याभराणानि-अङ्गपरिधेयानि, भूषणानि-उपाङ्गपरिधेयानि, तैर्विराजितानि यथाक्रममङ्गानि-शिरोहृदयानि उपाङ्गानि-अङ्गुल्यादीनि यस्याः । हारविरायंतहारेण विराजत्कुन्दादिपुष्पानां मालया च परिणद्धं व्याप्तं जलजलिंत त्ति जाज्वल्यमानं-देदीप्यामानं स्तनयुगलमेव विमलौ कलशौ यस्याः । आइअ आदृतैः सादरैः प्रत्ययितैविश्वस्तैर्विज्ञानकैविभूषितेन विरचितेन सुभग-सुभगेर्दृष्टिहारिभिर्जालगुच्छविशषैरुज्ज्वलेन इदृशेन मुक्ताकला