________________
कर्मवन्धस्थानानीत्यर्थः, ये परिसमन्तात् श्रवति-गलति सच्छिद्रघटबत् यैरनुष्ठानविशेषैस्ते परिश्रवाः-कर्मनिर्जरास्थानानीत्यर्थः, अयं भावः-यानीतरजनाचरितानि स्रगङ्गनादीनि सुखकारणतया तानि कर्मबन्धहेतुत्वात् आश्रवाः-कर्मबन्धस्थानानि, पुनस्तान्येव तत्त्वविदो-विषयसुखपराङ्मुखाणां निस्सारतया संसारसरणिदेश्यानीति कृत्वा वैराग्यजनकानि अतः परिश्रवाःनिर्जरास्थानानीत्यर्थःशय एव परिश्रवाः-निर्जरास्थानानि अर्हत्साधुतपश्चरणदशविषचक्रवालसामाचार्यनुष्ठानादीनि तान्येव कम्मोदयादशुभाध्यवसायस्य जन्तोराश्रवा भवन्ति-पापोपादानकारणानि जायन्त इत्यर्थः २। ये आवेभ्योऽन्येऽनाश्रवाःव्रतविशेषाः, तेऽपि कर्मोदयादशुभाध्यवसायिनो न परिश्रवा अपरिश्रवाः-कर्मबन्धस्थानानीत्यर्थः। दुर्मुखव्याहृतप्रथमध्यानस्थप्रसन्नचन्द्रराजर्षिकौङ्कणसाध्वादिवत् ३। ये न परिश्रवाः-कर्मबन्धस्थानानि ते न आश्रवा अनाश्रवाः-कर्मबन्धनानि न भवन्ति । केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणा अपरिश्रवाः करवीरलताभ्रामकक्षुल्लस्येवानाश्रवाः-कर्मबन्धनानि न स्युरिति ४। तथा "उप्पन्ने इ वा १ विगमे इ वा २ धुवे इ वा ३” व्याख्या-उत्पत्तिश्चतुर्दा, जीवाज्जीवस्योत्पत्तिर्यथा मातापितृभ्यां पुत्रस्य १, जीवादजीवस्योत्पत्तिर्यया सजीवदेहान्नखकेशादेः२, अजीवाजीवस्योत्पत्तिर्यथा-काष्ठात् घुणकस्य यद्वा द्राक्षादेरिलिकादीनां ३, अजीवादजीवस्योत्पत्तिर्यथा-कल्कयोगेन ताम्रात् स्वर्णस्येति ४ । विगमः-विनाशः सोऽपि चतुर्दा, जीवाजीवस्य विगमो भुजङ्गान्मनुष्यस्य १, जीवादजीवस्य नकुलसञ्चारात् दुग्धस्य यद्वा चिर्भटयोगात्कणिकायाः २, अजीवाजीवस्य विषान्मनुष्यादेः ३, अजीवादजीवस्य तक्रात् दुग्धस्येति ४, वस्तुनो ध्रुवताऽप्यस्ति, यथा-स्वर्णकङ्कणस्य भग्नत्वात् तस्य विनाशः केयूरस्य घटितत्वान् केयूरस्योत्पत्तिः स्वर्णस्यावस्थितत्वात् ध्रुवता, यद्वा तक्रयोगेन दुग्धस्य विनाशो दन उत्पत्तिः स्नि
॥४३॥