________________
रहितं चारित्रं - मूलगुणरूपं यस्यासौ अस्खलितचारित्रः, सततं - अनवरतं रागद्वेषविवर्जितस्तत्र मायालोभात्मको रागः, क्रोधमानात्मको द्वेष इति निष्ठापितानि क्षयं नीतान्यष्टौ मदस्थानानि - मानभेदा जातिकुलरूपबललाभश्रुततपोविभवमदाख्या arat निष्ठापिताष्टमदस्थानः, शोषिताः - कृशीकृताः कषायाः - सभेदाः क्रोधमानमायालोभाख्याः, नोकषाया वा येनासौ शोपितकषायः, जितान्यात्मवशीकृतानीन्द्रियाणि श्रोत्रहग्नासाजिह्वात्वग्मनोरूपाणि येनासौ जितेन्द्रियः : स्यादिति शेषः । एवंविधेन तेन छद्मस्थेनापि सार्द्धं केवलं - एक ज्ञान पस्यास्तीति केवली विहरेत् विचरेत्, तुशब्दादेकत्र वसेदपि यद्वा तेन छद्मसार्द्धं केवल्यपि विहरेत् छद्मस्थस्तु तेन सार्द्धं सुतरां विहरेदित्यर्थः । इति विषमाक्षरेति लक्षणे गाथाछन्दसि ॥४१॥४२॥ अथ यैः सह विहारादि न विधीयते तानाह -
जे ही अपरमत्थे, गोअमा संजए भवे । तम्हा ते वि विवजिज्जा, दुग्गड़पंथदायगे ॥ ४३ ॥
व्याख्या - हे गौतम! ये संयता अपि-संयमवन्तोstप 'अणहीअपरमत्य' ति अनधीता-अनभ्यस्ताः परमार्थाः - आगमरहस्यानि यैस्ते अनधीत परमार्था अगीतार्था इत्यर्थः । यत् - यस्मात् अज्ञातद्रव्यक्षेत्रकालभावौचित्या भवन्तीति शेषः, तस्मात् तान् अगीतार्थान् विवर्जयेत्-विहारे एकत्र निवासे वा दूरतस्त्यजेत् । अपि शब्दोऽत्र भिन्नक्रमः, स च यथास्थानं योजित एव । किंभूतान् तान् दुर्गतिपथदायकान् तिर्यग्नार ककुमानुष कुदेवरूपदुर्गतिमार्गमापकानित्यर्थः । अत्रागमरहस्यानि कानि - चिद्दर्श्यन्ते । यथा-" जे आसवा ते परिस्सवा १ जे परिस्सवा ते आसवा २ जेअणासवा ते अपरिस्सवा ३ जे अपरिस्सवा ते अणासवा ४।” इदमाचाराङ्गचतुर्थाध्ययनसूत्रमस्य व्याख्या - ये आश्रवति - आगच्छति अष्टप्रकारं कर्म्म यैरारम्भैस्ते आश्रवाः
新茶