________________
गच्छा चार
॥४१॥
एक अद्वितीयं बद्धं लक्ष वेध्यं तस्य च लयहेतुत्वेन कारणे कार्योंपचासल्लयो यैस्ते पर हितकरणैकानां परहित कक्षा एवंविधान सतां 'बोलिहित्ति प्रकृतत्वात् व्यतिचक्राम व्यतिक्रामति व्यतिक्रमिष्यति वा कालः समयादित्य क्षण इति । गीतिछन्दः । तल्लक्षणं चेदम- " आर्यामधमदलोक्तं, यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कृतयतिशोभां," तां गीतिं गीतवान् भुजङ्गेशः " ॥ ३६ ॥ अथ ये नाममात्रग्रहणेनापि पराहितकारिणः मूरयस्तानाह—
ती आणागकाले, केई होहिंति गोयमा सूरी । जेसिं नामग्गहणे वि, होइ नियमेण पच्छित्तं ॥३७॥
व्याख्या --- अतीतकाले ते केचिदनिर्दिष्टनामानोऽभूवन्निति शेषः, अनागतकाले च होहिति-भविष्यन्ति, 'आद्यन्तग्रहणे मध्यस्यापि ग्रहण' इति न्यायेन वर्त्तमानकाले च सन्ति । हे गौतम! सूरयः - आचार्या नामधारकाः येषां परिचयकरणादिकं दूरे आस्ताम्, नामग्रहणेऽपि भवति नियमेन - निश्चयेन प्रायश्चित्तम् । तथा चोक्तं श्रीमहानिशीथपश्चमाध्ययने " इत्थं चायरियाणं, पणपण्णं होंति कोडिलक्खाओ । कोडिसहस्से कोडी, सए य तह एतिए चैव ॥ १ ॥ एतेसि मज्झाओ, एगे निबुड गुणगणाइणे । सव्वुत्तमभंगेणं, तित्थयरस्साणुसारिगुरू ॥ २ ॥ " इति गाथाछन्दः ॥ ३७ ॥ अथात्र हेतुमाहजओ, सयरी भवंति अणविरकयाइ, जह भिच्च वाहणा लोए । पडिपुच्छाहिं चोयण, तम्हा उ गुरू सया भयइ ॥ ३८ ॥
व्याख्या – ' जओ 'त्ति भिन्नं पदं, यतो भणितं, 'सयरि 'त्ति स्वेच्छाचारीणि भवन्ति 'अणविक्खयाइ 'ति अनपेक्षया
SA
॥४१॥