SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ मनोवाकायगुप्तिरूपास्तिस्त्रो गुप्तयः, द्रव्यक्षेत्रकालभावभेदाच्चत्वारोऽभिग्रहाः, इति करणमिति । गायाछन्दः ॥३४॥ अथ संविग्नपाक्षिकस्यैव किश्चित्कर्त्तव्यं दर्शयन्नाहसम्मग्गमग्गसंपट्ठिआण, सांहूण कुणइ वच्छल्लं । ओसहभेसज्जेहि य, सयमन्नेणं तु कारेइ ॥३५॥ व्याख्या सन्मार्गमार्गसंपस्थितानां-सन्मुनिमार्गे सम्यक्मवृत्तानां साधूनां-मुनीनां करोति-विधत्ते स्वयं-आत्मना वात्सल्यं-समाधिसम्पादनं अधिकारात्संविग्नपाक्षिकः, कैः ? औषधभैषज्यैस्तत्रौषधानि-केवलद्रव्यरूपाणि बहिरुपयोगीनि वा, भैषज्यानि-सांयोगिकानि अन्त ग्यानि वा, चशब्दोऽनेकान्यप्रकारसूचकः । तथाऽन्ये-आत्मव्यतिरिक्तेन कारयति, तुशब्दात् कुर्वन्तमन्यमनुजानातीति । गाथाछन्दः ॥ ३५ ॥ अथाधिकारात् परवात्सल्यकारिणामतिस्तोकतामाह भूए अत्थि भविस्संति, केइ तेलुक्नमिअकमजुअला। जेसिं परहिअकरणिक-बद्धलक्खाण वोलिही कालो ॥ ३६ ॥ व्याख्या-भूता-अतीतकाले 'अत्यि'त्ति सन्ति-विद्यन्ते वर्तमानकाले भविष्यन्ति-भविष्यत्काले केचिदतिस्तोका एव, ते पुरुषाः किभूताः ? त्रैलोक्येन-स्वर्गमर्त्यपाताललक्षणेन तन्निवासिपाणिगणेनेत्यर्थः, नतं क्रमयुगलं येषां ते त्रैलोक्यनतक्रमयुगला, ते के? येषां परहितकरणैकबद्धलक्षाणां परेषा-अन्येषां हित-वात्सल्यं परहितं, परहितस्य करणं परहितकरणं तस्मिन् ,
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy