SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ MERAERIERRERARRERAKHREE व्याख्या-उन्मार्गस्थितः-उत्सूत्रप्ररूपणानिरतः एकोऽपि अधिकारात् मूरिनर्नाशयति-संसारसमुद्रे अनन्तानन्तमरणप्रदानेन विनाशयतीत्यर्थः, कान् भव्यसत्त्वसङ्घातान् किं कुर्वतस्तान् तन्मार्ग-उन्मार्गस्थितप्रदर्शितपथ अनुसरतः-आश्रयतः प्राकृतत्वाद्वचनव्यत्ययः । अत्र दृष्टान्तमाह-यथा कुतार: कुत्सिततारको नरो भवति । स बहून् पृष्टिलग्नान् जन्तुसमूहान् नद्यादौ विनाशयतीति, गाथाछन्दः॥३०॥अथोन्मार्गगामिनामेवाशुभफलं दर्शयतिउम्मग्गमग्गसंपहिआण, साहण गोअमा! नृणं । संसारो अ अणंतो, हाई संमग्गनासणिं ॥३१॥ - व्याख्या-उन्मार्गा-गोशालकबोटिकनिन्हवादयः तेषां मार्गः-परम्परा तस्मिन् अथवा उन्मार्गरूपो यो मार्गस्तस्मिन् समिति-एकीभावेन प्रइति-प्रकर्षण स्थितानां साधूनां साधुलिङ्गधारकाणां हे गौतम ! नूनं-निश्चितं संसारश्चतुर्गत्यात्मकः अनन्तो-अपर्यन्तो भवति । च शब्दस्तद्गतानेकदुःखमूचकः। किं भूतानां तेषां ! सन्मार्गनाशिनां-शुद्धपयोच्छेदकानां महानिशीयोक्तमुनिचन्द्रसाधुवत् इति । गाथाछन्दः॥ ३१॥ अथ कयश्चित् स्वयं प्रमादवानपि शुद्धमार्ग प्ररूपयन् कस्मिन् पक्षे आत्मानं स्थापयतीत्याहसुद्धं सुसाहुमग्गं, कहमाणो ठवइ तइअपरकम्मि। अप्पाणं इयरो पुण, गिहत्थधम्माउ चुक्क त्ति ॥३२॥ ____ व्याख्या-शुद्ध-अवितयं सुसाधुमार्ग-सन्मुनिपथं कथयन्-अरूपयन् स्वयं प्रमादवानपीति गम्यते स्थापयति-निवेशयति आत्मानं क? साधुश्राद्धपक्षद्वयापेक्षया तृतीयपक्षे-संविमपाक्षिकरूपे इतरो-अशुद्धमार्गमरूपकः पुनः 'गिहत्थधम्माउ' त्ति गृहस्थधर्मादायतिधर्मात्संविग्नपाक्षिकपयाच्च 'चुक' ति भ्रष्टः संसारपयत्रयान्तर्वीत्यर्थः । इति शब्दो वाक्यपरिसमाप्त्य
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy