________________
गच्छा चार
॥३७॥
संग गणिपिडगं अणागए काले अणंता जीवा आणाए आराहित्ता चाउरंत संसारकतारं वीइवइस्संति ३॥” इति नन्दिसूत्रे॥ इत्येवं विलोक्याचार्योपाध्यायप्रवर्तकगणावच्छेदकादिना मोक्षार्थिना भगवदाज्ञया आगमार्यों निरूपणीयः, न स्वमत्या तथात्वेऽनन्तसंसारावारिति । गाथाछन्दः ॥ २७ ॥ अथ के मूरय आज्ञामतिक्रामन्तीत्याहभट्ठायारो सूरी १, भट्ठायाराणुविरकओ सूरी २। उम्मग्गठिओ सूरी ३, तिन्निवि मग्गं पणासंति ॥२८॥
व्याख्या-भ्रष्टः-सर्वथा विनष्टः आचारो-ज्ञानाचारादिर्यस्य स भ्रष्टाचारः मूरिरधर्माचार्यः १, भ्रष्टाचाराणां-विनष्टाचाराणां साधूनां उपेक्षकः प्रमादप्रवृत्तसाधनामनिवारयितेत्यर्थः मूरिर्मन्दधर्माचार्यः२, उन्मार्गस्थित उत्सूत्रादिप्ररूपणपरः मूरिरधर्माचार्यः३, त्रयोऽप्येते मार्ग-ज्ञानादिरूपं मोक्षपथं प्रणाशयन्ति-जिनाज्ञामतिकामन्तीत्यर्थः ॥ गाथाछन्दः ॥२८॥ अर्थतेषां त्रयाणां सेवकस्याशुभफलमाहउम्मग्गठिए सम्मग्ग-नासए जो उ सेवए सूरी । निअमेणं सो गोअम ! अप्पं पाडेइ संसारे ॥२९॥ ___ व्याख्या-उन्मार्गस्थितान् सन्मार्गनाशकान् १ तुशब्दात् भ्रष्टाचारान २ भ्रष्टाचारोपेक्षकांश्च ३ सूरीन् यः सेवते-पर्युपास्ते नियमेन-निश्चयेन स नरो हे गौतम ! आत्मानं पातयति, संसारे-चतुर्गत्यात्मके इति । गाथाछन्दः॥ २९ ॥ अथ भङ्ग्यन्तरेण एनमेवार्थ दृष्टान्तेन समर्थयबाहउम्मग्गठिओ एक्को, विनासए भवसत्तसंघाए । तं मग्गमणुसरंतं, जह कुत्तारो नरो होइ ॥३०॥
॥३७॥