________________
मच्छा
चार
॥३६॥
निविषयीकृता सा क्वापि स्थानमलभमाना दुर्भिक्षे कल्पपालगृहे दासीत्वेन स्थिता मद्यमांसदोहदोऽस्याः सञ्जातः । बहूनां मद्यपायकानां भाजनेषूच्छिष्टे मद्यमांसे च भुङ्क्ते कांस्यदृष्यद्रविणानि चोरयित्वाऽन्यत्र विक्रीय मद्यमांसे मुझे । गृहस्वामिना राज्ञो निवेदितम् । राज्ञा मारणाय प्रसूतिसमयं यावद्रक्षितुमर्पिता चण्डालानां, अप्रसूता न हन्यते इति तत्कुलधर्म्मत्वात् । प्रसूता बालकं त्यक्त्वा नष्टा । राज्ञा पञ्चसहस्रद्रविणदानेन बालः पालितः । क्रमात् सूनाधिपतौ मृते राज्ञा स एव तद्गृहस्वामी कृतः पञ्चशतानामीशः २ । ततो मृत्वा सप्तमपृथिव्यां ३३ सागरायुः ३ । तत उद्धृत्यान्तरद्वीपे एकोरुकजातिर्जातः ४ । ततो मृत्वा महिषः २६ वर्षायुः ५, ततो मनुष्यः ६, ततो वासुदेवः ७, ततः सप्तमपृथिव्यां ८, ततो गजकर्णो मनुष्यो मांसाहारी ९, ततो मृत्वा सप्तमपृथिव्यामप्रतिष्ठाने गतः १०, ततो महिषः ११, ततो बालविधवाबन्धकी ब्राह्मणसुताकुक्षावुत्पन्नः, गर्भशातनपातनक्षारचूर्णयोगैरनेकव्याधिपरिगतो गलत्कुष्टी कृमिभिर्भक्ष्यमाणो गर्भान्निर्गतः लोकैर्निन्द्यमानः क्षुधादिपीडितो दुःखी सप्तवर्षशतानि द्वौ मासौ चत्वारि दिनानि जीवित्वा १२, मृतो व्यन्तरेषूत्पन्नः १३, ततः सूनाधिपो मनुष्यः १४, ततः सप्तम्यां १५, ततश्चाक्रिकगृहे वृषभो वाह्यमानः क्वथितस्कन्धो मुक्तो गृहस्वामिना काककमिश्वानादिभिविलुप्यमानः २९ वषायुर्मृतो १६, बहुव्याधिमानिभ्यपुत्रो वमनविरेचनादिदुःखैरेवास्य गतो मनुष्यभवः १७, एवं चतुर्द्दशरज्ज्वात्मकं लोकं जन्ममरणैः परिपूर्य अनन्तकालेनाऽपरविदेहे मनुष्योऽभवत् । तत्र लोकानुवृत्त्या गतस्तीर्थकरवन्दनाय, प्रतिबुद्धः, सिद्ध अत्र त्रयोविंशतितमश्रीपार्श्वजिनस्य काले । गौतमोऽमाक्षीत् किं निमित्तमनेन दुःखमनुभूतं ? गौतम ! उत्सर्गापवादैरागमः इत्यादि यद्भणितं तन्निमित्तम् । यद्यपि प्रवचने उत्सर्गापवादौ अनेकान्वश्च प्रज्ञाप्यन्ते, तथापि अप्कायपरि
天球供
套
वृति
॥३६॥