________________
आयरिअसंति ? गोअमा ! चउनिहा आयरिया भवंति, त० नामायरिआ ठवणायरिया दवायरिया भावायरिया, तत्य णं ने ते भावायरिआ ते तित्ययरसमा चेव दट्टवा, देसि संति आणं नाइक्कमेज" ति स कः यः सम्यग्-ययास्थित जिनमतं-जगत्मभुदर्शनं नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरुदैवभूतरूपनयसप्तकात्मकं प्रकाशयति-भव्यानां दर्शयतीत्यर्थः। तथा आझां-तीर्थकरोपदेशवचनरूपां अतिक्रामन-वितथमरूपणादिनोल्लङ्घयन् स मूरिः कापुरुषः पुरुषाधमः, न सत्पुरुषो-न प्रधानपुरुष इति । इह चाझोल्लजिनः कापुरुषत्वमात्रमैहलौकिकं फलं, पारलौकिकं तु तत्तदनेकदुस्सहदुःखसन्ततिसंवलितमनन्तसंसारित्वं श्रीमहानिशीथपञ्चमाध्ययनोक्तसावधाचार्यस्येव ज्ञेयम् । तथाहि-अस्या ऋषभादिचतुर्विशतिकायाः प्रागनन्तकालेन याऽतीता चतुर्विशतिका, तस्यां मत्सदृशः सप्तहस्ततनुर्धर्मश्रीनामा चरमतीर्थकरो बभूव । तस्मिश्च तीर्थकरे सप्ताश्चर्याणि अभूवन् । असंयतपूजार्या प्रवृत्तायामनेके श्राद्धेभ्यो गृहीतद्रव्येण स्वस्वकारितचैत्यनिवासिनोऽभवन् । तत्रैको मरकतच्छविः कुवलयप्रभनामाऽनगारो महातपस्वी उग्रविहारी शिष्यगणपरिवृतः समागात् । तैर्वन्दित्वोक्तं- अत्रैक वर्षारात्रिक चतुर्मास तिष्ठ, यया त्वदीयाज्ञयाऽनेके चैत्यालया भवन्ति, कुर्वस्माकमनुग्रहं, तेनोक्तं-सावद्यमिदं नाहं वाल्मात्रेणापि कई । तदेवमनेन भणता सता तीर्थकृन्नामकान्जितं, एकभवावशेषीकृतश्च भवोदधिः। ततस्तैः सवरेकमतं कृत्वा तस्य सावघाचार्य इति नाम दत्तं प्रसिद्धि नीतं च । तथाऽपि तस्य तेष्वीपदपि कोपो नाभूत् । अन्यदा तेषां लिङ्गमात्रप्रवजितानां मिथः आगमविचारो बभूव । यथा श्राद्धानामभावे संयता एव मठदेवकुलानि रक्षन्ति पतितानि च समारचयन्ति । अन्यदपि यत्तत्र करणीयं तस्यापि करणे न दोषः । केऽप्याहुः-संयमो मोक्षनेता, केचिदूचुः प्रासादावतंसके पूजासत्कारबलिविधाना