________________
长乐出乐出乐潑乐于飞分球分
तीत्यर्थः, स आचार्यो धन्यः - पुण्यवान्, अत एव ' सो अ पुण्णो य' ति स च पुण्य एव - पवित्रात्मैव 'स बंधु 'त्ति सबन्धुरिव बन्धुः कुमत्यादिनिवारकत्वेन परमहित कर्तृत्वात्, अत एव ' मोक्खदायगो' त्ति मोक्षप्राप्तिहेतुज्ञानादिरत्नत्रय - लम्भकत्वेन मोक्षदायक इति । अनुष्टुप् छन्दः ॥ २५ ॥
स एव भवसत्ताणं, चक्खूभूए विआहिए। दंसेइ जो जिणुद्दिट्ठ, अणुट्ठाणं जहट्ठिअं ॥ २६ ॥ व्याख्या - स एव आचार्यों भव्यसच्वानां - मोक्षगमनयोग्यजन्तूनां चक्षुर्भूतो- नयनतुल्यो व्याहृतः कथितो जिनादिभिः, स को यो जिनोद्दिष्टं-आप्तोक्तमनुष्ठानं-मोक्षपथमापकरत्नत्रयाराधनमित्यर्थः, यथास्थितं - अवितथं दर्शयति- कुमतिनिराकरणेन प्रकटीकरोतीति । अनुष्टुप् छन्दः ।। २६ ।। अथ पूर्वार्द्धन सुरेर्गुणविशेषेण तीर्थकरसाम्यं, उत्तरार्द्धनाशोल्लङ्गिनस्तस्य कापुरुषत्वं दर्शयन्नाह - तित्थयरसमो सूरी, सम्मं जो जिणमयं पयासेइ । आणं अइक्कमंतो, सो काउरिसो न सप्पुरिसो ॥२७॥ व्याख्या-स सूरिस्तीर्यकरसमः सर्वाचार्यगुणयुक्ततया सुधर्मादिवत् तीर्थकरकल्पो विज्ञेयः, न च वाच्यं चतुस्त्रिंशदतिशयादिगुणविराजमानस्य तीर्थंकरस्योपमा सुरेस्तद्विकलस्यानुचिता, यथा तीर्थकरोऽर्थ भाषते एवमाचार्योऽप्यर्थमेव भाषते, तथा यथा तीर्थकर उत्पन्नकेवलज्ञानो भिक्षार्थं न हिण्डते एवमाचार्योऽपि भिक्षायै न हिण्डते, इत्याद्यनेकप्रकारैस्तीर्थकरानुकारित्वस्य सर्वयतिभ्योऽतिशायित्वस्य परमोपकारित्वादेश्च ख्यापनार्थं तस्याः न्याय्यतरत्वात् । किञ्च - श्रीमहानिशीथपञ्चमाध्ययनेऽपि भावाचार्यस्य तीर्थकरसाम्यमुक्तम् । यथा - " से भयवं किं तित्थयरसंतिअं आणं नाइकमिज्जा, उदाहु