SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ गच्छा कार ॥३२॥ विशुद्धिकोऽपिशब्दात प्रतिमापतिपनको यथालन्दकल्पिकश्चावश्यन्तया गीतार्थः, जघन्यतोऽप्यधीतनवमपूर्वान्तर्गताचारनामकतृतीयवस्तुकत्वादेषामिति । तथा गच्छे गीतार्थविषयमृद्धिमतोराचार्योपाध्याययोकिं द्रष्टव्यम् , सूत्रे मतुलोपः प्राकृतस्वात् । आचार्य उपाध्यायो वा नियमाद् गीतार्थ इत्यर्थः । एषां सर्वेषामपि स्वातन्त्र्येण विहारो विज्ञेयः । शेषाः साधवो गीतार्थनिश्रया आचार्योपाध्यायलक्षणगीतार्थपारव्येण विहरन्ति इदमेव पश्चाई भावयति-"आयरियगणी इड्डी, सेसा गीता वि होति तन्नीसा । गच्छगयनिग्गया वा, ठाणनिउत्ताऽनिउत्ता वा ॥१॥ आचार्य:-मूरिः गणी-उपाध्यायः एतौ यत ऋद्धिमन्तौ-सातिशयज्ञानादिऋद्धिसम्पन्नौ अतिशायनेऽत्र मत्वर्थी यः यथारूपवती कन्येत्यादौ अतः शेषाः साधवो गीतार्या अपि तन्निश्रया आचार्योपाध्यायपरतन्त्रतया विहरन्ति । अथ के ते शेषा इत्याह-गच्छगता गच्छनिर्गता वा तत्र गच्छगतागच्छमध्यवर्तिनः गच्छनिर्गता ' असिवे ओमोअरिए ' इत्यादिभिः कारणैरेकाकीभूताः, अथवा स्थाननियुक्ताः स्थानानियुक्ता वा स्थाने-पदे नियुक्ता-व्यापारिताः स्थाननियुक्ताः प्रवर्तकस्थविरगणावच्छेदकाख्याः पदस्थगीतार्था इत्यर्थः । तद्विपरीताः स्थानानियुक्ताः सामान्यसाधव इत्यर्थः । एते सर्वेऽप्याचार्योपाध्यायनिश्रया विहरन्ति । कथमित्याह-" आयारपकप्पधरा, चोद्दसपुची अ जे य त मज्झा । तन्नीसाइ विहारो, सबालवुड्स्स गच्छस्स ॥१॥" आचारप्रकल्पधरा-निशीथाध्ययनधारिणो जघन्या गीतार्थाश्चतुर्दशपूर्विणः पुनरुत्कृष्टास्तन्मध्यवर्तिनः कल्पव्यवहारदशाश्रुतस्कन्धधरादयो मध्यमास्तेषां जघन्यमध्यमोत्कृष्टानां गीतार्थानां निश्रया सबालवृद्धस्यापि गच्छस्य विहारो भवति न पुनरगीतार्थस्य स्वच्छन्दमेकाकिविहारः कर्तुं युक्तः, कुत इति चेत् ? उच्यते-" एगविहारी अजाय-कप्पिओ जो भवे चवणकप्पे । उवसंपन्नो मंदो, होहिइ |॥३२॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy