SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 飞出飞出悉渐飞飞长发作出作 जिणवरेहिं ॥ १ ॥ " गीतः परिज्ञातोऽर्थो यैस्ते गीतार्था जिनकल्पिकादयस्तेषां स्वातव्येण यद्विहरणं स गीतार्थो नाम प्रथमो विहारः, तथा गीतार्थस्य - आचार्योपाध्यायलक्षणस्य निश्रिताः - परतन्त्रा यद्गच्छ्वासिनो विहरन्ति स गीतार्थनिश्रितो नाम द्वितीयो विहारो भणितः, इत ऊर्द्धमगीतार्थस्य स्वच्छन्द विहाररूपस्तृतीयो नानुज्ञातो जिनवरैर्भगवद्भिस्तीर्थकरैरिति । अथैनामेव निर्युक्तिगाथां विवृणोति । " गीअं मुणितेगहूं, विदियत्थं खलु वयंति गीयत्थं । गीएण य अत्थेण य, गीयत्थो वा सुयं गीयं ॥ १ ॥ " गीतं मुणितमिति चैकार्थं ततश्च विदितो- मुणितः परिज्ञातार्थः छेदसूत्रस्य येन तं विदितार्थं खलु वदन्ति गीतार्थ, यद्वा गीतेन च अर्थेन च यो युक्तः स गीतार्थो भण्यते । गीतार्थावस्य विद्येते इति अभ्रादित्वादमत्ययः । अथ गीतं किमुच्यते अत आह— श्रुतं सूत्रं गीतमित्यभिधीयते एतदेव भावयति । " गीएण होइ गीई, अत्थी अत्थे होइ नायव्वो । गीएण य अत्येण य, गीयत्थं तं विजाणाहि ॥ १ ॥ " इह सूत्रार्थवरत्वे चतुर्भङ्गी तद्यथा - सूत्रधरो नामैको नाधरः १, अर्थधरो नामैको न सूत्रधरः २, एकः सूत्रधरोऽप्यर्थधरोऽपि ३, अपरो न सूत्रधरो नार्थधरः ४, अयं चतुर्यो भङ्ग उभयशून्यत्वादवस्तुभूतः शेषं भङ्गत्रयमधिकृत्याह - गीतेन - सूत्रेण केवलेन सम्यक्पठितेन गीतमस्यास्तीति गीति भवति, अर्थेन केवलेन सम्यगधिगतेनार्थी भवति ज्ञातव्य अर्थधर इत्युक्तं भवति, यस्तु गीतेन चार्थेन चोभयतोऽपि युक्तस्तं गीतार्थं विजानीहि इति । इदमत्र तात्पर्यम् - तृतीयभङ्गवस्यैव तत्त्वतो गीतार्थशब्दमविकलमुद्रोढुमर्हति न प्रथमद्वितीयभङ्गवर्त्तिनाविति । अथ येषां गीतार्थानां तन्निश्रितानां वा विहारो भवति तान् दर्शयति- “ जिणकप्पिओ गीयत्थो, परिहारविसुद्धओ वि गीयत्थो । गीयत्ये इडिदुगं, सेसा गीयत्वनीसाए ॥ १ ॥ " जिनकल्पिको नियमाद् गीतार्थः, परिहार FELLENT
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy