SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ वोतिट्ठाणो ॥ १ ॥ " एकः सन विहरतीत्येवं शील एकविहारी स च अजातकल्पिकोऽगीतार्थस्तथा च्यवनं - चारित्रात् प्रतिपतनं तस्य कल्पः - प्रकार यवनकल्पः पार्श्वस्थादिविहार इत्यर्थः, तस्मिन् यो भवेत् स एकाकित्वमुपसम्पन्नः - प्रतिपन्नः सन् मन्दः - सद्बुद्धिविकलो भविष्यति व्युत्सृष्टत्रिस्थानः व्युत्सृष्टानि - परित्यक्तानि त्रीणि स्थानानि ज्ञानादिरूपाणि येन स व्युत्सृष्टत्रिस्थानः । एषा निर्युक्तिगाथा अथैनामेव विवृणोति - " म्रुत्तूण गच्छनिग्गय, गीयरस वि एकगस्स मासो उ । अविगीए चउगुरुगा, चवणे लहुगा य भंगट्ठा ॥ १ ॥ " मुक्त्वा गच्छनिर्गतान् - जिनकल्पिकादीन् गीतार्थस्यापि एककस्थ - एकाकिविहारं कुर्वतो मासलघु अविगीते - अगीतार्थे एका किविहारिणि चत्वारो गुरुकाः च्यवने- पार्श्वरथादिविहारे यदि मनसाऽपि सङ्कल्पं कुरुते तदा चत्वारो लघुकाः, इत्यादि श्रीबृहत्कल्पवृत्तिपीठिकायां तथा व्यवहारवृत्तिद्वितीयोद्देशकेऽपि " गीअत्थो अ विहारो, बीओ गीअत्थनिस्सिओ भणिओ । इत्तो तइअविहारो नाणुन्नाओ जिणवरेहिं ॥ १ ॥ " बिहार: प्रथमो भवति गीतार्थः गीतार्थसाध्वात्मकः, द्वितीयो गीतार्थनिश्रितः गीतार्थस्य निश्रा - संश्रयणं गीतार्थनिश्रा सा सञ्जाता, अस्य पाठान्तरं गीतार्थमिश्रित इति, तत्र गीतार्थसंयुक्त इति व्याख्येयमिति, आभ्यां गीतार्थगीतार्थनिश्रिताभ्यामन्यस्तृतीयो बिहारो नानुज्ञातो जिनवरेन्द्रैरित्यादि । तथौघनिर्मुक्तावपि यथा - " गीयत्थो अ विहारो, बीओ गीअत्यनिस्सिओ भणिओ । इत्तो तइअविहारो, नाणुन्नाओ जिणवरेहिं ॥ १ ॥ संजम आयविराहण, नाणे तह दंसणे चरिते य । आणालोबु ज़िणाण, कुबइ दीहं च संसारं ॥ २ ॥ संजमओ छक्काया, आया कँटट्टिजी रगेलने । नाणे नाणायारं, दंसणचर गाइवुगाहे ॥३॥” अथ कः कृत्वा विहारं सादयतीत्याह - ' सुहसीलगुणेहिं 'ति सुखशीलस्य - साताभिलाषिणो गुणाः- पार्श्वस्थादिस्थानानि *HAPA
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy