________________
त्तपःकायोत्सर्गादिना क्षपणापत्तेश्च साम्परायिककर्म तु कषायकर्म २, आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः आलोचनाया अप्रतिश्रावित्वात् ३, कुमार्ग प्रति चतुर्थभङ्गपतितः कुमार्गस्य हि प्रवेशनिर्गमाभावात् ४, यदि वा केवलश्रुतमाश्रित्य भङ्गा योज्यन्ते । तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः १, द्वितीयभङ्गपतितास्तु तीर्थकृतः २, तृतीयभङ्गस्था यथालन्दिकाः तेषां च कचिदर्थापरिसमाप्तावाचार्यादेनिर्णयसद्भावात् ३, प्रत्येकबुद्धास्तूमयाभावाच्चतुर्थभङ्गस्थाः ४, सम्यक्-सर्वथेत्यर्थः, 'समपासी चेव होइ कज्जेसु 'त्ति समं-अविपरीतं पश्यतीत्येवंशीलः समदर्शी 'दृशो नियच्छपेच्छ' (८-४-१८१) इत्यादिना दृशः पासादेशः एवंविध एव यो भवति क कार्येषु-आगमव्याख्यानादिसकलव्यापारेष्वित्यर्थः, स आचार्यः रक्षति-धत्ते कुमार्गे पतन्तमिति शेषः, के गच्छं-गणं किम्भूतं सबालाश्च ते वृद्धाश्च सबालवृद्धाः तैराकुल:-सङ्कीर्णस्तं सबालवृद्धाकुलं किमिव चक्षुरिव यथा चक्षुर्गर्त्तादौ पतन्तं जन्तुगणं धत्ते तथाऽयमपीत्यर्थः । गाथाच्छन्दः २२ ॥ अथ गाथाद्वयेनाधमाचार्यस्वरूपमाहसीयावेइ विहारं, सुहसीलगुणेहिं जो अबुद्धीओ। सोनवरि लिंगधारी,संजमजोएण णिस्सारो ॥२३॥
व्याख्या-जो अबुद्धीओ' ति य आचार्योऽबुद्धिकस्तत्वज्ञानरहितः 'सीयावेइ ' ति सीदयति-शिथिलीकरोति, के विहारं नवकल्परूपं गीतार्थादिरूपं च कैः सुखशीलगुणैः सुखशीलस्य-शाताभिलाषिणो गुणाः पार्थस्थादिस्थानानि सुखशीलगुणास्तैः अत्र किञ्चिद्विहारस्वरूपं वृहत्कल्पसूत्रतो यथा-" से गामंसि वा जाव पुडभेयणंसि वा सपरिक्खेवंसि | अबाहिरियसि कप्पइ निम्गंथाणं हेमंतगिम्हासु एक मासं वत्थए " मुगमं नवरं सपरिक्षेपे वृत्यादिरूपपरिक्षेपयुक्ते प्राकारबहिवैत्तिनी गृहपद्धति हिरिका न विद्यते बाहिरिका यत्र तदबाहिरिकं तस्मिन् “ से गामंसि वा जाव रायहाणिसि वा सपरि