________________
गच्छा चार
॥३०॥
भोजनं चेति लघवश्वतुर्यादाचाम्लमिव । एतेभ्योऽप्यध्यवपूरकान्त्य भेदद्वयं कृतभेदचतुष्टयं भक्तपानपूतिकं मायापिण्डोऽनन्तकायव्यवहित निक्षिप्तपिहितादीनि मिश्रानन्ताव्यव हित निक्षिप्तादीनि चेति लघव आचाग्लादेकभक्तमिव । एतेभ्योऽप्यौधौशिकमुद्दिष्टभेदचतुष्टयमुपकरणपूतिकं चिरस्थापितं प्रकटकरणं लोकोत्तरपरावर्त्तितममामित्यं च परभावक्रीतं स्वग्रामाभ्याहृतं दर्दरोद्भिन्नं जघन्यमालापहृतं प्रथमाध्यवपूरकः सूक्ष्मचिकित्सा गुणसंस्तवकरणं मिश्रकर्द्दमेन लवणसेटिकादिना च म्रक्षितं पिष्टादिक्षितं किञ्चिद्दायकदुष्टं प्रत्येकपरम्परस्थापितादीनि मिश्रानन्तरस्थापितादीनि चेति लघव एकभक्तात्पुरिमार्द्धमिव । एतेभ्योऽपि चेत्वरस्थापितं सूक्ष्ममाभृतिका सस्निग्धसरजस्कम्रक्षितं प्रत्येक मिश्रपरम्परस्थापितादीनि चेति लघवः पुरिमार्द्धानिर्विकृतिकमिवेति । गाथाछन्दः ॥ २१ ॥ ॥ पुनरप्याचार्यगुणानाह—
अप्परिसावी सभ्मं, समपासी चेव होइ कज्जेसु । सो खखइ चवखुंपि व, सबालबुड्ढाउलं गच्छं ॥२२॥
व्याख्या - न परिश्रवति परकथितात्मगुह्यजलमित्येवं शीलोऽपरिश्रावी आलोचनामाश्रित्य आचाराङ्गोक्ततृतीयभङ्गतुल्य इत्यर्थः । भङ्गाश्चैते - एको हदः परिगल श्रोताः पर्यागलत्श्रोताश्च शीताशीतोदाप्रवाहहदवत्, यतस्तत्र जलं निर्गच्छत्यागच्छति च १ । अपरस्तु परिगलत्श्रोता: नो पर्यागलत्श्रोता: पद्मइदवत्, पद्महूदे तु जलं निर्गच्छति नत्वागच्छति २ । तथा परो नो परिलगत्श्रोताः पर्यागलत्श्रोताश्च लवणोदधिवत्, लवणे आगच्छति जलं न तु निर्गच्छति ३ । अपरस्तु नौ परिगलत्श्रोता: नो पर्यागलत्श्रोताश्च मनुष्यलोकाद्वहिः समुद्रवत्तत्र नागच्छति न च निर्गच्छति ४ । तत्राचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः श्रुतस्य दानग्रहणसद्भावात् १, साम्परायिक कर्म्मापेक्षया तु द्वितीयभङ्गपतितः कषायोदयाभावेन ग्रहणाभावा
दृचि
॥३०॥