________________
रणवतुःप्रत्ययलोपात पाण्डनियुक्त्यादिभ्यो यथा-तत्र सर्वगुरुमूलामपिण्डोऽनन्तव
दिभिः २, निक्षिप्त-न्यस्त सचित्तादिषु ३, पिहित-तैः स्थगितं ४, संहृतं-तस्मादन्यत्र क्षिप्तम् ५, दायका-बालकादयः तैर्दीयमानं ६ उन्मिथ-सचित्ताचित्तयुक्तम् ७, अपरिणतं द्रव्यं भावो वा ८, लिम-खरण्टितं ९, छर्दितं-परिशाटनावत् १०, एवमेषणादोषा दश भवन्ति १ । प्रस्तावाद् ग्रासैषणा दोषा अपि पश्चोच्यन्ते-'संजोयणा १ पमाणे २, इंगाले ३ धुम ४ कारणे पढमा । वसहिबहिरंतरे वा, रसहेउ दवसंजोगा॥१॥" संयोजना-रसगृया गुणान्तरार्थ द्रव्यान्तरयोजनं १, प्रमाणं मानमतिक्रम्य भोजनं २, अङ्गार इति चारित्रेन्धनस्य रागाग्निना अङ्गारस्येव करणं ३, 'धुम' ति चरणेन्धनस्य द्वेषेण धुमवत्करणं वतुःप्रत्ययलोपात् धूमः ४, कारण-भोजनहेत्वनाश्रयणं ५, इति किञ्चिन्यूनगाथार्थिः । इति सोपेण सप्तचत्वारिंशद्दोषस्वरूपं विस्तरतस्तु पिण्डनियुक्त्यादिभ्यो ज्ञेयम् । इदं च दोषस्वरूपं पिण्डमाश्रित्योक्तम् । एवं वस्त्रादीन्यप्याश्रित्य यथासम्भवं ज्ञेयम् । अथ प्रसङ्गतो गुरुलघुदोषस्वरुपं यथा-तत्र सर्वगुरुमूलकर्म, तत्र मूलं १८० । तस्माचाधाकर्मक कर्मोद्देशिकचरमत्रिकं मिश्रान्त्यद्विकं बादरमाभृतिका समत्यपायाभ्याहृतं लोभपिण्डोऽनन्तकायाव्यवहितनिक्षिप्तपिहितसंहृतमिश्रापरिणतछर्दितानि संयोजना साङ्गारवर्त्तमानभविष्यन्निमित्तं चेति लघवो दोषा मूलपायश्चिचाच्चतुर्थतपोवत् । एतेभ्यः कम्मोद्देशिकाद्यभेदो मिश्रप्रथमभेदो धात्रीत्वं दृतीत्वमतीतनिमित्तमाजीवनापिण्डो बनीपकत्वं वादरचिकित्साकरणं क्रोधमानपिण्डौ सम्बन्धिसंस्तवकरणं विद्यायोगचूर्णपिण्डाः प्रकाशकरण द्विविधम् द्रव्यक्रीतमात्मभावक्रीतं लौकिकमामित्यपरावर्तिते निःप्रत्यपायपरग्रामाभ्याहृतं पिहितोद्भिन्नं कपाटोनिमुत्कृष्टमालापहृतं सर्वमाच्छेद्यं सर्वमनिसृष्टं पुरस्कर्म पश्चाकर्म गर्हितम्रक्षितं संसक्तम्रक्षितं प्रत्येकाव्यवहितनिक्षिप्तपिहितसंहृतमिश्रापरिणतछर्दिवानि प्रमाणोल्लकनं सधूममकारण