SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥२८॥ अंतरायकम्मविउस्सगे ८, से तं कम्मविउस्सग्गे । से तं भावविउस्सग्गे २।" इदं प्रायश्चित्तादि लौकिकैरनभिलषितत्वात् तवान्तरैश्च भावतोऽनासेव्यमानत्वात् मोक्षमाझ्यन्तरङ्गत्वाचाभ्यन्तरमिति । अथ वीर्याचार:-"अणिगृहियबलविरिओ, परक्कमइ जो जहुचमाउत्तो । जुजइ य जहाथाम, नायन्चो वोरियायारो॥१॥” अनिगृहितबलवीर्यो-ऽनिहुतबाह्याभ्यन्तरसामर्थ्यः सन् पराक्रमते-चेष्टते यो यथोक्तं शिल्लक्षणं आचारमाश्रित्येति गम्यम् । षट्त्रिंशद्विषत्वं च ज्ञानदर्शनचारित्राचाराणामष्टविधत्वात् तप आचारस्य च द्वादशविधत्वात् , उपयुक्तः-अनन्यचित्तः पराक्रमते ग्रहणकाले तत ऊई युनक्ति चप्रवर्त्तयति च यथास्थाम-यथासामर्थ्य ज्ञातव्योऽसौ वीर्याचारः, आचाराचारवतोः कथञ्चिदभेदादिति । गाथाछन्दः॥ २० ॥ पूर्वमाचारेषु चारित्राचारः प्रतिपादितः, स तु शुद्धपिण्डादिग्रहणे स्यादित्याहपिंडं उवहिं सिजं, उग्गमउप्पायणेसणासुद्धं । चारित्तरक्खणट्ठा, सोहिंतो होइ स चरित्ती ॥ २१ ॥ व्याख्या-पिण्डश्चतुर्विधाहारलक्षणः, उपधिरौधिकौपग्रहिकलक्षणः, तत्रौधिक त्रिविधः-मुखवत्रिका १ पात्रकेसरिका २ गुच्छकः ३ पात्रस्थापनं ४ चेति चतुर्विधो जघन्यः १, पटलानि १ रजस्वाणं २ पात्रबन्धः ३ चोलपट्टः ४ मात्रकं ५ रजोहरणं ६ चेति षड्विधो मध्यमः २, पतद्ग्रहः १ कल्पत्रयं ४ चेति चतुर्विध उत्कृष्टः ३ । औपग्रहिकोपधिरपि त्रिधातत्र पीठ १ पादपोञ्छन २ दण्डकपमार्जन ३ डगल ४ सूची ५ नखहरणी ६ कर्णशोधनादिरूपो जघन्यः, संसारक १ उत्तरपट्ट २ दण्डक ३ उच्चार ४ प्रस्रवण ५ खेलमल्लक ६ योगपट्ट ७ सन्नाइपट्ट ८ चिलिमिल्या९दिरूपो मध्यमः, अक्ष १ पञ्चविधपुस्तकादिरूप उत्कृष्टः । विशेषतस्तु औधिकोपग्रहिकौपधिस्वरूपं यतिजीतकल्पटिकादिभ्योऽवसेपम् । शय्या IRCH
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy