________________
वसतिः एतत्रयमुद्गमोत्पादनैषणादोषशुद्धम्, तत्र गृहिप्रभवाः षोडशोद्गमदोषा गृहिणा प्रायेण तेषां क्रियमाणत्वात्, प्रायेणेत्युक्ते स्वद्रव्यक्रीतस्वभावक्रीतलोकोत्तरमामित्यलोकोत्तर परिवर्तितरूपदोषाः साधुनाऽपि क्रियमाणा अवसेया इति, साधुसमुत्थाः षोडशोत्पादना दोषाः साधुनैव तेषां विधीयमानत्वात्, गृहिसाधुजन्यदशग्रहणैषणादोषाः शङ्कितदोषस्य साधुभावापरिणतदोषस्य च साधुजन्यत्वाच्छेषाणां च गृहिमभवत्वात्, तैः शुद्धं रहितं चारित्ररक्षणार्थ- संयमपरिपालनार्थं शोधयन् - उत्पादयनाचार्यो भवति सचारित्री सह चारित्रेण वर्त्तते यः स सचारित्री सर्वधनादीत्वादिन् समासान्तः चारित्रवानित्यर्थः । तत्रोद्गमादि दोषस्वरूपं किञ्चिद् यथा - " आहाकम्मु १ देसिय २ पूईकम्मे अ ३ मीसजाए य ४ । aaणा ५ पाहुडियाए ६, पाओयर ७ कोय ८ पामिचे ९ ॥ ९ ॥ परियहिए १० अभिह ११ - भिने १२ मालोहडे य १३ अच्छि १४ । अणिसिद्ध १५ ज्झोयरए १६, सोलसपिंडुग्गमे दोसा ।। २ ।। " आधानमाधा प्रस्तावात्साधुप्रणिधानं अमुकस्मै साधवे देयमिति तया, आधाय वा साधून् कर्म षड्जीवनिकाय विराधनादिना भक्तादिपाकक्रिया आधाक तद्योगाद् भक्ताद्यपि तथा निरुक्तायलोपः १, उद्देशनमुद्देशो वा यावदर्थिकादिप्रणिधानं तेन निर्वृत्तं उद्दिश्य कृतं वा औशिकम् २, शुद्धस्याप्यविशुद्धभक्तमीलनात् पूतिकर्म, आधाकर्माद्यवयवः पूतिः तद्योगाद्वा ३, मिश्रेण - किञ्चिद् गृहयोग्यं किञ्चित्साधूनामिति विकल्पेन जातं - पाकादिभावमुपागतं मिश्रजातं ४, स्थाप्यते साधुदानार्थ किञ्चित्कालं इति स्थापना ५, प्र - इतिविवक्षितकालादौ आ - इति साध्वागमनरूपमर्यादया विवाहादिकरणेन भृता-धारिता या भिक्षा, स्वार्थिके कप्रत्यये प्राभृतिका ६, यत्यर्थ देयवस्तुनः प्रकटीकरणं-प्रादुःकरणं ७, क्रीतं द्रव्यादिना ८, साध्वर्थमुद्धारानीतं प्रामित्यं अपमित्यं
HEALT