SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ अणाजीवी, नायब्बो सो तवायारो ॥ ४॥ द्वादशविधेऽपि तपसि साभ्यन्तरबार्बी कुशलदृष्टे जिनोपलब्धेऽग्लान्या-न राजवेष्टिकल्पेन यथा शक्त्या वा अनाजीविको निःस्पृहः फलान्तरमाश्रित्य यः ज्ञातव्योऽसौ तपआचारः, आचारतद्वतोरभेदात् | ॥ ४ ॥ तत्र बाह्यं तप आह-" अणसणश्मूणोयरिया २, वित्तीसंखेवणं ३ रसच्चाओ ४ । कायकिलेमो ५ संलीणया || य ६, बज्झो तवो होइ ॥५॥” अनशनं-आहारत्यागः, तद्धिा -इत्वरं यावत्कयिकं च, तत्राद्यं चरमजिनतीर्थे चतुर्थादिषण्मासान्तं यावत् , उत्तराध्ययने तु " इत्तरियमरणकाला य, अणसणा दुविहा भवे । इत्तरिया सावकंखा, निरवकंखा | वितिजिया ॥१॥” इत्वरकं सावकाझं घटिकाद्वयाद्युत्तरकालं भोजनेच्छया वर्त्तते इति सावकाङ्गमित्यस्ति, यावत्कथिकं तु आजन्मभावि, तत्पुनश्चेष्टाभेदोपाधेविशेषतस्विधा, पादपोपगमनं १, इङ्गितमरण २, भक्तपरिज्ञा ३, तत्रानशनिन:-त्यक्तचतुविक्षहारस्याधिकृतचेष्टा व्यतिरेकेण चेष्टान्तरमधिकृत्य एकान्तनिम्पतिकर्माङ्गस्य पादपस्येवोपगमन-सामीप्येन वर्त्तनं पादपोपगमनं, तच्च सव्याघातं निर्व्याघातं च, तत्र सव्याघातं व्याघ्रसिंहायुपद्रवे सति क्रियते, निर्व्याघातं तु यत्सूत्रार्थोभयनिष्टितो निष्पादितशिष्यः संलेखनापूर्वमेव विधत्ते, अन्यथा आर्तध्यानसम्भवः । तथा इङ्गिते प्रदेशे मरणं इङ्गितमरणं, इदं च संहननापेक्षं पूर्वोक्तं अशक्नुवतश्चतुर्धाहारनिवृत्तिरूपं स्वत एवोद्वर्तनादिक्रियायुक्तस्य ज्ञेयम् २, भक्तपरिज्ञा त्रिधाहारचतुर्धाहारनित्तिरूपा, सा नियमात् सपतिकर्माङ्गस्य धृतिसंहननवतो यथा समाधिभावतोऽवगन्तव्या ३ ॥१॥ यद्यनशनं कर्तुं न शक्नोति तदोनोदरतां कुर्यादित्यनश नानन्तरमूनोदरतामाह एवमग्रेऽपि ज्ञेयम्-' उणोयरिय ' त्ति ऊनोदरता सा विधा, यदुक्तं स्थानाङ्गे 'तिविहा ओमोयरिया पं० त० उवगरणोमोयरिया १, भत्तपाणगोमोयरिया २, भावोमोयरिया ३१ अस्य
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy