SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ वृत्तिः गच्छा चार I॥२३॥ मूर्खाणां, नृणां चारित्रकाशिणाम् । अनुग्रहार्थ तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः ॥१॥” इत्यादिकारणानि, ततश्चनिःशङ्कितो जीव एवार्हच्छासनपतिपन्नो दर्शनाचरणात् तत्वाधान्यविवक्षया दर्शनाचार उच्यते, अनेन दर्शनदर्शनिनोरभेदमाह १, निष्कासितः देशसर्वकाङ्क्षारहितः, तत्राद्यः एक दर्शनं काङ्क्षति, सर्वकाङ्क्षा तु बौद्धादीनि सर्वाणि २, निर्गता विचिकित्सा-फलं प्रति सन्देहो यस्मादसौ निर्विचिकित्सः, साध्वेव जिनमतं, किन्तु प्रवृत्तस्यापि सतो ममास्मात् फलं भविष्यति न भविष्यतीति क्रियाया इति सन्देहो विचिकित्सा जातनिश्चयो निर्विचिकित्स उच्यते, यद्वा विदो-विज्ञास्ते च तत्त्वतः साधव एव तेषां जुगुप्सारहितो निर्विजुगुप्सः ३, बालतपस्वितपोविद्यातिशयदर्शनैर्न मूढा-स्वरूपान्न चलिता दृष्टिः-सम्यग्दर्शनरूपा यस्यासौ अमूढदृष्टिः ४, अयं चतुर्विधोऽप्यान्तर आचारो । बाह्यं खाह-उपहा च समानधाम्मिकाणां प्रशंसनं-तत्तद्गुणपरिवर्णनम् ५, स्थिरीकरणं च धर्माद्विषीदमानानां तत्रैव स्थापनं उपहास्थिरीकरणे ६, वात्सल्यं च समानधार्मिकप्रीत्युपकारकरणं ७, प्रभावना च धर्मोक्त्यादिभिस्तीर्थख्यापनं वात्सल्यप्रभावने ८, इत्यष्टविधो दर्शनाचारः ॥२॥ अथ चारित्राचार:-" पणिहाणजोगजुत्ता, पंचहिं समिईहिं तिहिं गुत्तीहिं । एस चरित्तायारो, अट्ठविहो होइ नायवो ॥३॥"प्रणिधानं-चेतःस्वास्थ्यं तत्पधाना योगा-व्यापारास्तैर्युक्तः, अयं च ओघतोऽविरतसम्यग्दृष्टिरपि स्यादत आह-पञ्चभिः समितिभिस्तिसभिश्च गुप्तिभिर्यः प्रणिधानयोगयुक्तः, एतद्योगयुक्त एतद्योगवानेव, अथवा पञ्चमु समितिषु तिसषु गुप्तिसु अस्मिन् विषये एता आश्रित्य प्रणिधानयोगयुक्तो यः, एष चारित्राचारः । आचाराचारवतोः कथञ्चिदभेदात् अष्टविधः स्याद् ज्ञातव्यः ॥ ३ ॥ अथ तपआचार:-बारसविहम्मि वि तवे, सभितरवाहिरे कुसलदिट्टे । अगिलाइ | ॥२३॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy