SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तस्तस्य तस्मिन्नेव काले स्वाध्यायो विधेयः नत्वकाले तथैव फलमदत्वात् , कृष्यादेरपि काल एव करणे फलं नान्यथा १, श्रुतादानं कुर्वता गुरोविनयः कार्यः-अभ्युत्थानाध्रिधावनादिः २, तथा श्रुतादाने गुरोर्बहुमान-आन्तरो भावप्रतिबन्धः कार्यः, एवं मुखेनाधिकफलं श्रुतं स्यात् , विनयबहुमानाभ्यां चतुर्भङ्गयत्र ३, उपदधातीति उपधानं तपः तद्यत्र यत्र अध्ययने आगाढानागाढयोगलक्षणमुक्तं तत्तत्र तत्र कार्य तत्पूर्वकस्यैव श्रुतग्रहणस्य सफलत्वात् ४, अनिन्हवः गृहीतश्रुतेनानिन्हवः कार्यः यद्यस्यान्तेऽधीतं तत्र स एव वाच्यः नान्यः चित्तकालुष्यापत्तेः ५, व्यञ्जनार्थसदुभयान्याश्रित्य भेदो न कार्य इति शेषः, एतदुक्तं भवति-श्रुतप्रवृत्तेन तत्फलमीप्सिता व्यअनभेदोऽर्थभेद उभयभेदश्च न कार्यः, तत्र व्यञ्जनभेदो यथा-' धम्मो मंगलमुक्किट्ठ' इति वक्तव्ये 'पुनं कल्लाणमुक्कोसं' इत्यादि ६, अर्थभेदस्तु यथा'आवन्ती केयावंती लोगंसि विप्परामुसंती'त्यत्राचारसूत्रे यावन्तः केचन लोके-ऽस्मिन् पाखण्डिलोके षड्जीवनिकायान् विपरामृशन्ति-अनेकप्रकारं घातयन्त्येवंविधार्थोक्तौ । अघन्तिजनपदे केया-रज्जुर्वान्ता-पतिता लोकः परामशति कूप इत्याह ७, उभयभेदस्तु द्वयोरपि याथात्म्योपमर्दैन यथा 'धर्मो मंगलमुत्कृष्टः अहिंसा पर्वतमस्तकः ' दोषश्चात्र व्यञ्जनभेदेऽर्थभेदः, तद्भदे क्रियाया भेदः, क्रियाभेदे च मोक्षाभावः, तदभावे निरर्थका दीक्षा आचारः, इति सर्वत्र योजनीयम् ८, अष्टविधः कालादिभेदद्वारेण ज्ञानाचार इति ॥ १ ॥ अथ दर्शनाचारः-" निस्संकिय १ निकंखिय २-निवितिगिच्छा ३ अमूढदिट्ठी अ४ । उववृह ५ थिरीकरणे ६, वच्छल्ल ७ पभावणे अट्ठ ८॥२॥" निःशङ्कितः-देशशङ्का समाने जीवत्वे कथमेको भव्योऽन्यस्त्वभव्य इति शङ्कते, सर्वशङ्का तु सिद्धान्तस्य प्राकृतबन्धतया कल्पितत्वं मन्यते न तु-"बालस्त्रीमन्द
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy