________________
गच्छा
चार
॥२४॥
वृत्तिः-तब प्रथमा जिनकल्पिकादीनामेव न पुनरन्येषां शास्त्रीयोपध्यभावे हि समनसंयमाभावात् , अतिरिक्ताऽग्रहणतो वोनीदरतेति । " अप्पाहारउबड्डा, दुभागपत्ता तहेच किंचूणा । अट्ठ दुवालस सोलस, चउवीस तहिक्कतीसा य ॥१॥” अल्पाहारोनोदरता नाम एककवलादारभ्य यावदष्टौ कवला, अत्रैककवलमाना जघन्या अष्टकवला तृत्कृष्टा शेषमेदा मध्यमा । एवं नवभ्य आरभ्य यावद् द्वादश कवलास्तावदुपार्दोनोदरता, एवं त्रयोदशभ्य आरभ्य यावत् पोडश तावद् द्विभागोनोदरता । एवं सप्तदशभ्य आरभ्य यावच्चतुर्विंशतिस्तावत्प्राप्ता, इत्थं पञ्चविंशतिभ्य आरभ्य यावदेकत्रिंशत्तावत्किञ्चिन्यूनोदरता । जघन्यादिका स्वधिया ज्ञेया । एवमनेनानुसारेण पानेऽपि वाच्या २, भावोनोदरता क्रोधादित्यागेन ३ ॥२॥ वृत्तिसङ्केपी भिक्षाचर्यारूपः यदुक्तमोपपातिके-'भिक्खायरिया अणेगविहा, पं० त० दवाभिग्गहचरए' द्रव्याभिग्रहः लेपकृतादिद्रव्यविषयः, 'खेत्ताभिग्गहचरए -क्षेत्राभिग्रहः स्वग्रामपरग्रामादिविषयः, 'कालाभिग्गहचरए'-कालाभिग्रहः पूर्वान्हादिविषयः, 'भावाभिग्गहचरए' भावाभिग्रहः गानहसनादिप्रवृत्तनरादिविषयः इत्यादि ३, रसत्यागोऽनेकधा, यथोपपातिके -'णिवित्तिए पणीयरसपरिचाई आयविलिए आयामसित्थभोई अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे' इत्यादि ४, कायक्लेशो यथा-'ठाणठिइए ठागाइए उक्कुडुयासणिए पडिमट्ठाई वीरासणिए नेसज्जिए आयावए अवाउडए अकंडुयए अणिदुभए सहगायपडिकम्मविभूसविप्पमुक्के इत्यादि ५, संलीनता इन्द्रियसंलीनतादिभेदाच्चतुर्धा,-"इंदियकसायजाए, | पडुच्चसंलीणया मुणेयवा । तह य विवित्ताचरिया, पन्नता वीयरागेहिं ॥१॥" श्रोत्राद्यैरिन्द्रियैः सुन्दरेतरशब्दादिषु तोषद्वेषाकरणमिन्द्रियसंलीनता, कषायसंलोनता तदुदयनिरोधोदीर्णविफलीकरणरूपा, योगसंलीनता मनोयोगादीनाम
॥२४॥