________________
सुभिक्खं देसं साहरेज्जा, कंताराओ वा निकंतारं करेज्जा, दीहकालिएण वा रोगायंकेणं अभिभूयं विमोएज्जा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति, अहे णं से तं धम्मायरियं केवलिपण्णत्ताओ धम्माओ भट्टं समाणं भुज्जो केवलिपन्नत्ते धम्मे आघवइत्ता जाव ठावइत्ता भवति, तेणामेव तस्स धम्मायरियस्स सुप्पडियारं भवति ३ ।' तथा सर्वेष्वपि गुरुः सुदुष्करतरप्रतीकारः। यदुक्तं श्रीउमास्वातिवाचकपादैः प्रशमरतिग्रन्थे “दुःपतिकारौ माता-पितरौ स्वामी गुरुश्च लोकेड स्मिन् । तत्र गुरुरिहामुत्र च, सुदुष्करतरप्रतीकारः ॥१॥" इति, अनुष्टप्छन्दः । ॥ १८ ॥ अथ कथं कथञ्चित्यमादिनं गुरु शिष्यो विबोधयतीत्याहतुम्हारिसा वि मुणिवर, पमायवसगा हवंति जइ पुरिसा।तेणन्नो को अम्हं, आलंबण हुज संसारे॥१९॥
व्याख्या-युष्मादृशा अपि हे मुनिवर !-श्रमणश्रेष्ठ ! प्रमादवशगाः-प्रमादपरवशा भवन्ति यदि चेत् पुरुषा:-पुमासः, तेन कारणेनान्यो-युष्मद्व्यतिरिक्तः कोऽस्माकं मन्दभाग्यानां आलम्बनमत्र, विभक्तिलोपः प्राकृतत्वात् , सागरे नौरिव भविष्यति, संसारे-चतुर्गत्यात्मके पततामिति शेषः । अनेन विधिना शिष्यः प्रमादिनं गुरुं विबोधयतीत्यधिकाराल्लभ्यते । तथाऽत्र विबोधन विधये आचार्यगुणानपि शिष्य आचार्यस्य दर्शयति । यथा-पुढवीविव सवसह, मेरुव अकपिरं ठियं धम्मे । चंदुव सोमलेस, तं आयरियं पसंसति ॥१॥ अप्परिसावं आलो-यणारिहं हेउकारणविहिन्नु । गंभीर दुद्धरिसं, त आयरियं पसंसंति ॥२॥ कालन्नु देसन्नु, भावन्नु अतुरिअं असंभंतं । अणुवत्तयं अमाय, तं आयरियं पसंसंति ॥३॥ लोइय