SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ पात् ५, अन्यस्य तु देवशापात्तदुदयो जायते ६, इत्येतान् षट् नपुंसकान् निशीथोक्तविशेषलक्षणासम्भवे सति प्रवाजयेदिति ६ एतेषामष्टचत्वारिंशतः मत्रज्याऽनहणामुत्सर्गापवादपदाभ्यां विशेषव्याख्यानं निशीथाद् ज्ञेयमिति । तथा सभ्यग्मार्ग- मोक्षपथं न ग्राहयति-न दर्शयति न शिक्षयतीत्यर्थः स आचार्यो वैरीति जानीहि, हे गौतम! त्वमिति विषमाक्षरेति गाथानु छन्दसी १५ ।। १६ ।। अथ पूर्वोक्तार्थलेशं विशेषयन्नाह जीदाए विलिहतो, न जत्रो सारणा जहिं नहि । दंगेण वि तामंतो, स जद्द सारा जब ॥१७॥ व्याख्या--जिह्वया विलिहन्- शिष्यं चुम्बन्नाचार्यो न भद्रको -न श्रेष्ठः यत्राचार्ये सारणा - हिते प्रवर्त्तनलक्षणा, स्मारणा वा—कृत्यस्मारणलक्षणा, उपलक्षणत्वाद्वारणा अहितान्निवारणलक्षणा, नोदना - संयमयोगेषु स्खलितस्यायुक्तमेतद्भवादृशां विधातुमित्यादिवचनेन प्रेरणा, प्रतिनोदना - तथैव पुनः पुनः प्रेरणा, नास्ति न विद्यते । तथा दण्डेनापि यष्ट्रयाऽपि किं पुनर्दवस्कादिना ताडयन् शरीरे पीडां कुर्वन् स आचार्यो भद्रकः - श्रेष्ठः यत्र गणिनि सारणा उपलक्षणत्वाद्वारणादि वाऽस्तीति । गाथाछन्दः ॥ १७ ॥ अथ सूरिस्वरूपप्रक्रमेऽपि प्रसङ्गाद् यः शिष्योऽपि गुरोर्वैरी तमाहसीसो विवेरियो सो उ, जो गुरुं न विबोहए। पमायमश्राघछं, सामायारी विराहयं ॥ १० ॥ व्याख्या - शिष्योऽपि विनेयोऽपि स वैर्येव-शत्रुरेव तुरेवकारार्थी भिक्रमथ स च योजित एव, यो गुरु-धम्र्मोपदेशकं न विबोधयति - हितोपदेशदानेंन धर्मे न स्थापयति, किम्भूतं गुरुमित्याह-प्रमादमदिराग्रस्त प्रमादो - निद्राविकधादिरूपः स BSE
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy