________________
गच्छा
चार
॥२०॥
स्तब्धे सेवां विना यो वेदं न धारयति २, क्लीवश्चतुर्दा यो विवस्त्रां खियं वीक्ष्य क्षुभ्यति स दृष्टिक्लीवः १ शब्द श्रुत्वा क्षुभ्यति स शब्दक्लीवः २, एवमाश्लिष्टः ३, निमन्त्रितः ४,३। यस्य मोहोत्कटतया द्रवकाले लिमं वृषणौ वा कुम्भवद्भवतः स कुम्भी ४, स्त्रियमासेव्यमानामालोक्य यस्येामिलापो जायते स ईर्ष्यालु ५, वेदोत्कटतया यो गृहचटक इवाभीक्ष्णं मैथुनासक्तः स शकुनिः ६, यो गलितशुक्रः श्वान इव स्वलिङ्ग लेढि स तत्कर्मसेवी ७, शुक्लपक्षे सवेदो न कृष्णपक्षे अथवा शुक्लपक्षे कृष्णपक्षे वा पक्षं यावदतीवोदयः स्यात् तावन्मात्रमेव च कालमल्पोदयः सपाक्षिकापाक्षिकः ८, यः सुभगं मन्वानः स्वलिङ्ग जिघ्रति स सौगन्धिकः ९, यो वीर्यपातेऽपि प्रियामालिङ्गय तिष्ठति स आसक्तः १० । एते दश नपुंसकाः साधूनां प्रवाजितुमकल्पिता:-अयोग्याः कुत इत्याह-' संकिलि?' ति अविशेषतस्तावन्नगरदाहसमानकामाध्यवसायसम्पन्नत्वात्सर्वेऽप्यमी सक्लिष्टा:-रुयाद्यासेवामाश्रित्य अतीवाशुभाध्यवसायवन्त इति दीक्षानों इत्यर्थः ॥ ४॥५॥ ननु पुरुषमध्येऽपि नपुंसका ऊक्ता इहापि चेति तत्क एतेषां परस्परं प्रति विशेषः ? सत्यं किन्तु तत्र पुरुषाकृतीनां ग्रहणमिह तु नपुंसकाकृतीनां एवं स्त्रीष्वपि वाच्यम् । शेषाः षट् नपुंसकाः प्रव्रज्याहर्हाः। तद्यथा-" वद्धिए चिप्पिए चेव, मंतओसहि| उवहए । इसिसत्ते देवसत्ते, पवावेज नपुंसए ॥ ६॥" आयत्यां राजन्तःपुरमहल्लकपदप्राप्त्यादिनिमित्तं यस्य बालत्वेऽपि छेदं दत्वा वृषणी गालितो भवतः स वर्द्धितकः १, यस्य तु जातमात्रस्याङ्गटांगुलीभिर्मदेयित्वा वृषणौ द्राव्येते स चिप्पितः २, एतयोश्चैवं कृते सति किल नपुंसकवेदोदयः सम्पद्यते, कस्यचित्त मत्रसामर्थ्यादन्यस्य त्वोपधिप्रभावात् पुरुषयेदे स्त्रीवेदे वा समुपहते सति नपुंसकवेदः समदेति ३-४, अपरस्य तु मदीयतपः प्रभावान्नपुंसको भव त्वमिति ऋषिशा
॥२०॥