________________
कमानो गच्छति
अन्यावपि द्वाविमौ भेदौ भवतश्च, तद्यथा-गुर्विणी-सगर्मा, सबालवत्सा सह बालेन स्तन्यपायिना वत्सेन वर्तते इति सबालवत्सा । एते सर्वेऽपि विंशतिः स्त्रीभेदा दीक्षानहींः ॥३॥ नपुंसकाः पुनः षोडश भेदा भवन्ति, तत्र दश दीक्षानाः। तद्यथा-" पंडए १ वाइए २ कोबे ३, कुंभी ४ ईसालुए ति य । सउणी ६ तक्कम्मसेवी य ७, पक्खियापक्खिए इ य ८॥४॥ सोगंधिए अ९ आसत्ते १०, दस एए नपुंसगा । संकिलिट्ठ ति साहूणं, पहावेउं अकप्पिया ॥५॥” तत्र पण्डकस्वरूपं यथा-"महिलासहावो सरवन्नभेओ, मिढं महतं मउया य वाणी। ससद्दयं मुत्तमफेणगं च, एयाणि छप्पंडगलक्खणाणि ॥१॥” पुरुषाकारधारिणोऽपि महिलास्वभावत्वं पण्डकस्यैकं लक्षणम, तथा हि-गतिस्तस्य मन्दा भवति, सशङ्कश्च पृष्टतोऽवलोकमानो गच्छति, शरीरं च शीतलं मृदु च भवति, योषिदिवानवरतं हस्तोल्लकान् प्रयच्छन् जदरोपरि तिर्यग् व्यवस्थापितवामकरतलस्य वा उपरिष्टाद्दक्षिणकरकूपर विन्यस्य दक्षिणकरतले च मुखं कृत्वा बाहू च विक्षिपन् भाषते, अभीक्ष्णं च कटीहस्तकं ददाति, भावरणाभावे स्त्रीवहाहुभ्यां हृदयमाच्छादयति, भाषमाणश्च पुनः सविभ्रमं भ्रूयुग्ममुक्षिपति, केशबन्धनं प्रावरणादिकं च स्त्रीवत्करोति, योषिदाभरणादिपरिधानं च बहु मन्यते, स्नानादिकं प्रच्छन्ने समा| चरति, पुरुषसमाजमध्ये च सभयः शङ्कित्तस्तिष्ठति स्त्रीसमाजे तु निःशङ्कितः, प्रमदोचितं च रन्धनकण्डनपेषणादिकं कर्म प्रवि
दधाति, इत्यादि महिलास्वभावत्वं पण्डकलक्षणम् । अपरं च स्वरवर्णभेदः स्वरो वर्णश्च उपलक्षणत्वात् गन्धरसस्पर्शाश्च स्त्रीपुरुषापेक्षया विलक्षणास्तस्य भवन्तीत्यर्थः । मे-पुरुषचिन्हें महद्भवति, मुद्री च वाणी ललनाया इव सञ्चायते, योषित इच सशब्द मूत्रमभिजायते फेनरहितं च तद्भवति, एतानि षट्पण्डकलक्षणानि १ ॥ वातिका सनिमित्तमलिमित्तं वा लिङ्गे
रिशाइक्षिणकरकूपर
दयति, भाषमाण
प्रच्छन्ने समा