________________
गच्छा चार
॥१८॥
बज्जा ५॥४॥ पासंडिकारणा खलु, आरंभा अभिनवा महावज्जा ६। समणहा सावज्जा ७, महासावज्जाउ साहूर्ण ८॥५॥ जा खलु जहुत्तदोसेहि, वज्जिया कारिया सअट्ठाए । परिकम्मविप्पमुक्का, सा वसही अप्पकिरिय ति९॥६॥" आसां च नवानां शय्यानां मध्ये प्रथममल्प क्रियाऽनुज्ञाता लेशतोऽपि सावद्यत्वाभावात् , तस्या अलामे कालातिक्रान्ताऽनुज्ञाता, तस्या अप्यभावे उपस्थाना अनुज्ञाता, एवमग्रतोऽपि पूर्वस्याः पूर्वस्या अलाभे उत्तरोत्तराऽनुज्ञाता वेदितव्येति । तथा 'साहुवग्गं' ति साधूनां वर्गो-वृन्दं साधुवर्गस्तं चशब्दात्साध्वीवर्ग च सङ्गलीत न तु हीनाचारिवगै । तथा 'सुत्तत्यं च निहालइ ' त्ति सूत्रमाचाराङ्गादि अर्थों नियुक्ति-भाष्य-चूर्णी-सङ्घहणी-वृत्ति-टिप्पनादिः सूत्र चार्थश्चेति समाहारद्वन्द्वे सूत्रार्थ तत् निभालयति-चिन्तयतीत्यर्थः । चशब्दात्साधूनामपि सूत्रार्थ ददातीति । एवंविधो यः स सदाचार्यः स्यादिति शेषः । इत्यनुष्टुप् छन्दः॥१४॥ अथ यः सूरिः शिष्यस्य वैरी स्यात् तं वृत्तद्वयेनाहसंगहोवग्गहं विहिणा, न करेइ अ जो गणी। समणं समणिं तु दिक्खित्ता, सामायारिं न गाहए ॥१५॥ बालाणं जो उ सीसाणं, जीहाए उवलिंपए । न सम्ममग्गं गाहेइ सो सूरी जाण वेरिओ ॥ १६ ॥ ___ अनयोाख्या-'संगहोवग्गहं' ति सङ्ग्रहश्च शिष्यादीनां सङ्ग्रहणम् , उपग्रहश्च तेषामेव भक्तश्रुतादिदानेनोपष्टम्भनं तत्तथा तन्न करोति, चान्न कारयति, विधिना-आगमोक्तप्रकारेण यो गणी-आचार्यः, तथा यः श्रमणं श्रमणी दीक्षित्वा तुशब्दात् प्रतीच्छकगणमपि सामाचारी-आगमोक्ताहोरात्रक्रियाकलापरूपां सत्स्वगच्छोक्तां वा न ग्राहयेव-निर्जरापेक्षी
॥१८॥