SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ त्ति उल्लोइआ सेटिकादिभिः संमृष्टेत्युक्तं भवति १,'धृविय'त्ति दुग्गंध त्ति काउं अगुरुमाईहिं सुगंधीकया २, 'वासिय' ति पटवासकुसुमादिभिरपनीतदुर्गन्धभावाः ३, उद्योतिता रत्नप्रदीपादिभिः प्रकाशिता ४, 'बलिकड' ति कृतकूरादिवलिविधाना ५, 'अवत्त' त्ति छगणमृत्तिकाभ्यां जलेन चोपलिप्तभूमितला अव्यक्तस्थानयुक्ता वा निर्वाता वा ६, सिक्ता केवलोदकेनार्दीकृता ७, सन्मृष्टा प्रमार्जिता ८, साध्वर्यायेति सर्वत्र प्रक्रमः । विसो० अविशोधिकोटौ न भवतीत्युक्तं भवति । एतदनुसारतस्तु चतुःशालादिष्वपि मूलोत्तरगुणविभागो विज्ञेयः । एवमन्यदपि कालातिक्रान्तादिवसतिनवकमाचाराङ्गायुक्तमत्र ज्ञेयम् । यथा-"कालाइक्त १ उव-ट्ठाण २ अभिकंत ३ अणभिकता ४ य । वजा ५ य महावज्जा, ६ सावज ७ मह ८ प्पकिरिया ९ य ॥१॥ उडुवासा समईया, कालाइवंत सा भवे सिज्जा १। सा चेव उवट्ठाणा, दुगुणादुगुणं अवज्जित्ता ॥२॥" ऋतुबद्धकाले वर्षाकाले च यत्र स्थितास्तस्यामृतुबद्धकाले मासे पूर्ण वर्षाकाले च चतुर्मासे पूर्णे यदि साधवस्तिष्ठन्ति तदा सा वसतिः कालातिक्रान्ता भवेत् १ । यस्यां वसतौ ऋतुबद्ध मासं वर्षाकाले चतुर्मासं च स्थिता यदि तस्यामृतुबद्धवर्षाकालसम्बन्धिकालमर्यादां द्विगुणां द्विगुणामवर्जयित्वा भूयः समागत्य तिष्ठन्ति तदा सैव वसतिरुपस्याना। किमुक्त भवति-ऋतुबद्धे काले द्वौ मासौ वर्षास्वष्टमासान् अपरिहृत्य यदिपुनरागच्छन्ति तस्यां वसतौ ततःसा उपस्थाना भवति । अन्ये पुनरिदमाचक्षते यस्यां वसतौ वर्षारात्रं स्थितास्तस्यां द्वौ वर्षारात्रौ अन्यत्र कृत्वा यदि समागच्छन्ति, ततः सा उपस्थाना न भवति, अनि तिष्ठतां पुनरुपस्थाना २। “जावंतिआउ सिज्जा, अण्णेहिं सेविया अभिकता ३ । अण्णेहि अपरिमुत्ता, अणभिकता उपविसंते ४॥ ३ ॥ अत्तटुकडं दाउं, जईण अण्णं करेइ बज्जाओ। जम्हा तं पुत्वकर्य, वज ति अओ मवे
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy