SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सन्न शिक्षयेदित्यर्थः, तथा यः पुनर्बालानां शिष्याणां शिरःप्रभृति अवयवमिति शेषः जिह्वया - रसनया उपलिम्पेत् - गौरिष वत्सस्य चुम्बेत्, अत्यन्तं बाह्यहितं करोतीत्यर्थः । ननु बालादीनां प्रत्राजने निषेधोऽस्ति तत्कथं बालानां शिष्यत्वं ? उच्यते यो यं प्रत्राजने बालो निषिध्यते स ऊनाष्टवर्षः, अत्र त्वष्टवर्षोपरिवर्त्ती बालो गृह्यते अपवादपदेन तूनाष्टवर्षोऽपि । अत्र · प्रसङ्गात् बालादय उच्यन्ते - " वाले १ बुड्ढे २ नपुंसे य ३, कीबे ४ जड्डे य ५ वाहिए ६ । तेणे ७ रायावगारी अ ८, उम्मत्ते ९ य अदंसणे १० ॥ १ ॥ दासे ११ दुट्टे य १२ मूढे य १३, अणत्ते १४ जुंगिए इ य १५ । ओबद्धए य १६ भयए १७, सेहनिप्फेडिया इ य १८ ॥ २ ॥ गुहिणी सबालवच्छा, पञ्चावेडं न कप्पए । कायचा दुपयसंजुत्ता, एएसिं तु परूवणा ॥ ३ ॥ " तत्र सप्ताष्टौ वर्षाणि यावद्वालोऽत्राभिधीयते १, सप्ततिवर्षेभ्य उपरि वृद्धः, अन्ये त्वाहुरर्वागपीन्द्रियादिहानिदर्शनात्षष्टिवर्षेभ्योऽप्युपरि वृद्धोऽभिधीयते २ न स्त्री न पुमान्नपुंसकं ३, यः स्त्रीभिर्भोगैर्निमन्त्रितोऽसंवृताया वा स्त्रियोऽङ्गोपाङ्गानि दृष्ट्वा शब्दं वा मन्मनोल्लापादिकं तासां श्रुत्वा समुद्भूत्तकामाभिलाषोऽभिसोढुं न शक्नोति स क्लीबः ४, जडस्त्रिधा - भाषया शरीरेण करणेन च, भाषाजडः पुनरपि त्रिधा - जलमूकः मन्मनमूकः एलकमूकः, जलमग्न इव बुडबुडायमानो यो वक्ति स जलमूकः, यस्य तु वदतः खच्यमानमिव वचनं स्खलति स मन्मनमूकः, यस्त्वेलक इवाव्यक्तं मूकतया शब्दमात्रमेव करोति स एलकमूकः, यः पथि भिक्षाटने वन्दनादिषु वाऽतीव स्थूलतया शक्तो न भवति स शरीरजडः, करणं-क्रिया तस्यां जड्डुः समितिगुप्तिप्रतिक्रमणप्रत्युपेक्षणासंयमपालनादिक्रियाकलापं पुनः पुनरुपदिश्यमानमप्यतीव जडतया यो ग्रहीतुं न शक्नोति स करणजह इत्यर्थः ५, भगन्दरातीसारकुष्टप्लीहशूलार्शःप्रभृतिरोगैर्ग्रस्तो व्याधितः ६, खात्रखन
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy