SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥१६॥ दोषाः मासगुरुप्रायश्चित्तं च । इति निशीथसूत्रप्रथमोद्देशके । अथ पात्रम्, तत्र एकादित्रिपर्यन्तकार्षापणमूल्ये पात्रे गृह्यमाणे लघुमासः, चतुरायष्टादशपर्यन्तकार्षापणमूल्ये गुरुमासः, अग्रतो मूल्यवृद्धौ प्रायश्चित्तवृद्धिर्वस्त्रवत्पात्रेऽप्यवसेया । तथा“ तुंबयदारुअमट्टिअ - पायं उक्कोसमज्झिमजहन्नं । उप्परिवाडी गहणे, चाउम्मासा भवे लहुगा ॥ १ ॥ " पात्रं त्रिविधम्-तुम्ब कमयं दारुमयं मृत्तिकामयं । एकैकं त्रिविधम्-उत्कृष्टं मध्यमं जघन्यं, उत्कृष्टं पतद्ग्रहः, मध्यमं मात्रकं, जघन्यं टोप्परिकादि । एकैकं पुनस्त्रिधा यथाकृतमल्पपरिकर्म बहुपरिकर्म च । तत्र यथाकृतं यत्पूर्वमेव कृतमुखं कृतलेपं तादृशं कुत्रिकापणे लभ्यते, real वा प्रतिभातिनिवृत्तः श्रमणोपासको वा तादृशं ददाति । अर्द्धाङ्गलं यावद्यच्छेद्यं स्यात् तदल्पपरिकर्म । यदर्द्धाङ्गलात्परतः छेद्यं भवति तद्बहुपरिकर्म । एतेषां पात्राणामुत्परिपाठ्या विपर्यासेन ग्रहणे चत्वारो मासाः लघुका भवन्ति, उपलक्षणत्वाल्लघु मासरात्रिंदिवपञ्चकेऽपि । इदमुक्तं भवति उत्कृष्टस्य यथाकृतस्य पात्रस्योत्पादनाय निर्गतस्तस्य योगं त्रिःपर्यटन रूपं अकृत्वाऽल्पपरिकर्म उत्कृष्टमेव गृहाति चतुर्लघु । बहुपरिकर्म का प्रथमत एव गृहाति चतुर्लघु । यदा यथाकृतं योगे कृतेऽपि न लभ्यते, तदाऽल्परिकर्म गवेषणीयम्, तस्योत्पादनाय निर्गतः प्रथमत एव बहुपरिकर्म गृहाति चतुर्लघु । इति त्रीणि चतुर्लघुकानि । एवं मध्यमस्यापि त्रिषु स्थानेषु त्रीणि मासिकानि । जघन्यस्य स्थानकत्रयेऽपि त्रीणि रात्रिंदिवपञ्चकानि । यथा यथाकृतादिविपर्यस्तग्रहणे प्रायश्चित्तं तथोत्कृष्टादीनामपि परस्परं विपर्यस्तग्रहणे प्रायश्चित्तम् । तद्यथा - उत्कृष्टस्य प्रतिग्रहस्यार्थाय निर्गतो मध्यमं मात्रकं गृण्हाति मासिकं, जघन्यं टोप्परिकादि गृण्हाति पञ्चकम् । मध्यमस्य निर्गतः उत्कृष्टं गृहाति चतुर्लघु, जघन्यं गृहाति पञ्चकं । जघन्यस्य निर्गतः उत्कृष्टं गृण्हाति चतुर्लघु, मध्यमं गृहाति मासिकं । इत्यादि [1 *** वृत्तिः ॥१६॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy