________________
विना मासद्वयं यावन्नोपकरणग्रहणं कुर्युः, पार्श्वस्थादिक्षेत्रे तु मासयमध्येऽप्युपकरणग्रहणे न दोषः, ऋतुबद्धकाले च यत्र मासकल्प स्थितास्तत्राप्युत्कर्षतः कारणं विना मासयं परिहत्योपकरणग्रहणं कुर्युः। एतदपि विस्तरतो निशीथदशमोद्देशक चूर्णितो निर्णयम् । ' तथा जे भिक्खू वत्थस्स एगं पडिआणिअं देइ, देंतं वा साइज्जइ ' यो वस्त्रस्य एक थिग्गलं ददाति ददतं वा स्वादयति-अनुमोदयति तस्य दोषाः । द्वौ कल्पौ सौत्रिको एकः औणिको ग्राह्यः । वर्षाकालं विना और्णिकः एकको न व्यापार्यः, मध्ये सौत्रिको बहिरौणिक इति विधिपरिभोगः । औणिके शरीरे लग्ने षट्पदिकादिजन्तुसंसक्त्यादि| दोषाः स्युः । 'जे भिक्खू वत्थस्स परं तिण्हं पडिआणिआणं देइ देंतं वा साइज्जइ ।' यः कारणे त्रयाणां विग्गलानां परतश्चतुर्थ थिग्गलं ददाति तस्य प्रायश्रित्तं । 'जे भिक्खू अविहीए वत्थं सिवइ, सिवंतं वा साइज्जइ ' अविधिसीवनं यथा गृहस्थानां पार्थद्वय मीलनेन सीवनं तथा न सीव्येत् । 'जे भिक्खू वत्थस्स एगं फालि अगठिअं करेइ, करेंतं वा साइज्जइ' पाटितवस्त्रस्योभयोरञ्चलयोर्मीलनेन ग्रन्थि ददाति अधिक मा पाटयत्विति । 'जे भिक्खू वत्थस्स परं तिहं फालिअगठियाणं करेइ, करेंत वा साइज्जइ ' वस्त्रे ग्रन्धिस्तावदुत्सर्गतो न कार्यः, यदि च वस्त्रस्यालाभे ग्रन्थि करोति, तदा त्रयाणां ग्रन्थीनामधिकं ग्रन्थिं न कुर्यात् । 'जे भिक्खू वत्थं अविहीए गठेइ, गंठेतं वा साइज्जइ' । सुगमम् । 'जे भिक्खू वत्थं अतज्जाएण गंठेइ ।' योऽतज्जातीयेन वस्त्रेण ग्रन्थि कुर्यात्, श्वेतवस्त्रं रक्तादिना न सीव्यम्-न योज्यम्, यो योजयति अतज्जातीयेन सीव्यति च तस्य दोषाः। 'जे भिक्खू अइरेगं वत्यं गवेसइ, गवसंतं वा साइज्जइ । जे भिक्खू अइरेगगहिअं वत्थं परेण दिवड्डाओ मासाओ धरेइ, धरतं वा साइज्जइ ।' योऽधिकं वस्त्रं गृहीत्वा सामासात्परतो धारयेत्, तस्याज्ञादि