SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥१५॥ 404434434 प्रभसूरिविरचितयतिजित कल्पनामकप्रकरणश्रीसाधु रत्नसूरिकृतवृत्तौ । अथ गच्छवासी साधुर्वस्त्रं कथं मार्गयति ? केन वा विधिना ? उच्यते यस्य साधोः कल्पादिकं वस्त्रं नास्ति स तत्प्रवर्त्तिनः कथयति यथा ममामुकं वस्त्रं नास्ति, प्रवर्त्त्यपि आचार्यस्य कथयति अमुकस्य साधोरमुकं वस्त्रं नास्ति, गच्छे चाभिग्रहिका भवन्ति, अस्माभिर्वस्त्राणि पात्राणि वा आनेव्यानि । अन्यदपि वा येन केनचित्साधुना प्रयोजनं तदा आचार्यस्तेषां निवेदयति-यथा आर्या अमुकं वस्त्रं नास्ति । अथ न सन्त्याभिग्रहिकास्तदा स एव साधुर्भण्यते त्वमात्मना वस्त्रमुत्पादय । अथ स उत्पादयितुमशक्तः ततो योऽन्यः शक्तस्तमाचार्यों व्यापारयति यथा - अमुकं वस्त्रं मार्गयेति । य आभिग्रहिको यो वा व्यापारितस्तौ केन विधिनोत्पादयतः ? उच्यते सुत्रपौरुषीमर्थपौरुषं च कृत्वा भिक्षामेव हिण्डमानावुत्पादयतः, यदि भिक्षां हिण्डमानौ न लभेते तदाऽर्थपौरुष्यामपि मार्गयतः, तथाऽप्यलामे सूत्रपौरुष्यामपि सूत्रं वर्जयित्वा मार्गयतः, यद्येवमपि न लभ्यते तदैकैकं सङ्गाटकं आचार्यों व्यापारयति, आर्या ! यूयं भिक्षामेव हिण्डमाना वस्त्राणां योगं कुर्यास्तदा तेऽपि मार्गयन्ति, तथाऽप्यलभ्यमाने बहूनि वा वस्त्राणि उत्पादयितव्यानि, वृन्दसाध्यानि च कार्याणीति कृत्वा पिण्डकेन सर्वेऽप्युत्तिष्ठन्ति आचार्य मुक्त्वा, यद्याचार्यः स्वयं हिण्डते तदा चतुर्गुरुका अन्ये च बहवो दोषाः । ये चाचार्यव्यतिरिक्तास्ते पुनः सर्वे गीतार्थाः, अथवा अर्द्धा गीतार्या अर्द्धा अगीतार्थाः, अथवा एकोगीतार्थः शेषाः सर्वेऽगीतार्थाः, अथवा आचार्य मुक्त्वा शेषाः सर्वेऽप्यगीतार्थाः, तदा यस्तेषामगीतार्थानां मध्ये वाग्मी लब्धिसम्पन्नश्च तस्याचार्यो वस्त्रेषणामुत्सर्गापवादाभ्यां कथयति । इत्यादि वस्त्रोत्पादनविधिः सविस्तरः श्रीनिशीथपञ्चदशोद्देशकचूर्णि - तोsवसेयः । तथा वर्षाकाले यत्र क्षेत्रे चातुर्मासकं स्थितास्तत्पूर्त्तावपि तत्राऽन्यत्रापि च संविनक्षेत्रे सक्रोशयोजनप्रमाणे कारणं वृत्तिः ।।१५।।
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy