________________
मनिर्वाहनिमित्तं ग्राह्यम्, न पुनः कृत्स्नं वस्त्रं । तच्च चतुर्धा, द्रव्यकृत्स्नं क्षेत्रकृत्स्नं काल कृत्स्नं भावकृत्स्नं च । तत्र यत् सदर्श प्रमाणातिरिक्तं वा वस्त्रं तद्र्व्यकृत्स्नं, यद्वस्वं यत्र क्षेत्रे दुर्लभं बहुमूल्यं वा तत्तत्र क्षेत्रकृत्स्नं, यस्त्रिं यस्मिन् कालेऽपितं दुर्लभै वा तत्तस्मिन् काले कालकृत्स्नं, यथा ग्रीष्मे काषायवलं, शिशिरे प्रावारादि, वर्षासु कुंकमादिखचितं, भावकृत्स्नं द्विधा, वर्णतो मूल्यतश्च, वर्णतः पञ्चविधं वर्णाढवं यथा-कृष्णं मयूरग्रीवासन्निभं, नील शुकपिच्छसन्निभं, रक्तं इन्द्रगोपकसन्निभं, पीतं सुवर्णच्छविसन्निभ, शुक्लं शद्धेन्दुसन्निभं, तदेवंविधं वर्णकृत्स्नं । द्रव्यादिकृत्स्ने वर्णकृत्स्ने चोत्कृष्ट चतुर्लघु, मध्यमे मासलघु, जघन्ये पञ्चकं । मूल्यकृत्स्नं पुनखिविधं जघन्यं मध्यममुत्कृष्टं च । तत्र यस्याष्टादशरूपका मूल्यं तज्जघन्य, लक्षरूपकमूल्यमुत्कृष्ट, शेषं मध्यमं । रूपकप्रमाणं चेदम-द्वीपसत्करूपकद्विकेनोत्तरापथरूपक एकः स्यात् , तवयेन चैकः पाटलिपुत्रीयो रूपका, अथवा दक्षिणापथरूपकद्वयेन कांचिपुरीयरूपकः एकः स्यात्, तद्वयेन च पाटलिपुत्रीय एकः रूपकोऽत्रावगन्तव्यः । १८ रूपकमूल्ये वस्खे लघुमासः, २० रूपके चतुर्लघु, १०० रूपके चतुर्गुरू, २५० रूपके षड्लघु, ५०० रूपके षड्गुरुः, सहस्ररूपके छेदः, दशसहस्ररूपके मूलं, पञ्चाशत्सहस्ररूपकमूल्येऽनवस्थाप्यम् , लक्षरूपकमूल्ये पाराश्चिकम् । कृत्स्नवस्त्रबहुमूल्यपात्रग्रहणे च चौराद्यनर्थः । इत्थ दिट्ठनो-एगो राया आयरियाण उवसमइ, सो सव्वं गच्छे कंबलरयणेहिं पाडिलाभिर उवडिओ, आयरिएहिं निसिद्धो न वट्टइ त्ति, अतिनिबंधेणं एगं गहिअं, भण्णइ पाउएणं हट्टमग्गेणं गच्छह, तहा कयं तेणगेण दिट्ठा, राति आगंतुं तेणगेण भणिअं-जइ न देह वत्थं रायदिन्नं तो मे सिरच्छेअं करेमि, आयरिएहिं भणि-वडिअं दंसेह, देसि, रुट्ठो भणेति, सिव्विउं देह अन्नहा मे मारेमि, तं च सिव्विर्ड दिण्णं, एवमनेके दोषाः स्वयं जेयाः । इतिश्री सोम