SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ यतिजीतकल्पनामकप्रकरणवृत्तौ ॥ अथ किंचिनिशीयसूत्रोक्तं-यथा 'जे भिक्खू पायस्स एगं तुडिअं तड्डेइ, तडेतं वा साइज्जइ।''तुडिअं'ति थिग्गलं । 'तड्डेइ ' ददाति । 'जे भिक्खू पायरस परं तिण्हं तुडिआणं तड्डेइ, तहुँत वा साइज्जइ।" यस्त्रयाणां थिग्गलानां परतश्चतुर्थ थिग्गलं ददाति, तस्याज्ञादयो दोषाः। कोऽर्थः-पूर्व तावत्परिकर्मणा वर्जितं पात्रं ग्राह्यम्, तदभावे सपरिकर्म, तत्र कारणे थिग्गलं दातव्यम् । अस्थिरं दुर्बलं (यत्) पात्रम्, तत्र भैक्ष्ये गृहीते पात्रं भज्यते, प्रातिहारिकंवा पात्रं धनिकोऽसमयेऽप्युद्दालयति, अथवा यत्पात्रं सत्तायां भवति तल्लघु, यत्र देशे तुम्बकादि पात्राणि लभ्यन्ते तत्र मार्गादिभयात् गमनं दुष्करम्, एवं प्रकारैः कारणैः पात्रे थिग्गलमेकं द्वे त्रीणि वा दद्यात्, परं चतुर्थस्य दाने आज्ञादिदोषाः। पात्रस्य थिग्गले बन्धविधिमाह-'जे भिक्खू पायं अविहीए बंधइ, बंधेतं वा साइज्जइ । जे भिक्खू एगेणं बंधेणं बंधइ, बंधतं वा साइज्जइ । जे भिक्खू पायं परं तिण्हं बंधाणं बंधइ, बंधेतं वा साइज्जइ ।' एषां समुदायार्थः-स्वस्तिकबन्धः स्तेनबन्धश्चाविधिबन्धः । मुद्रिकासंस्थानो बन्धो नौसंस्थानो बन्धश्च विधिवन्धः । विधिना बन्धनीयम् । उत्सर्गतस्तु बन्धरहितं पात्रं ग्राह्यम, तदभावे एको बन्धः कार्यः, तस्याप्यभावे द्वौ बन्धौ भवतः तादृक् पात्रं ग्राह्यम्, तस्याप्यभावे त्रिवन्ध ग्राह्यम्, चतुर्थों बन्धो न कार्यः । 'जे भिक्खू अइरेगबंधणं पायं दिवड्डाओ मासाओ परेण धरइ, धरतं वा साइज्जइ ।' अस्यार्थः-यो बन्धत्रयातिरिक्तबन्धनं पात्रं सार्धमासात्परतो धारयति तस्याज्ञादिदोषाः । अतिरिक्तबन्धनं पयोत्पलनाभियुक्तं च पात्रमपलक्षणत्वान्न धारणीयम् । तस्मिन् धृते शेषोपकरणविनाशः, ज्ञानादिविराधना, शरीरस्य पीडा, भैक्ष्यं न लभ्यते, इत्यादिसंयमात्मविराधनासद्भावात्सुलक्षणं पात्रं समचतुरस्र वृत्तं वा यद्भूमौ मुक्तं स्थिरं तिष्ठति तद् ग्राह्यम् । अत्र वस्त्रस्य पात्रस्य
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy