________________
स्य व्याधि-रोगोत्पत्तिमन्यस्य वैद्यस्य कथयति-यथास्थितं निरूपयति वैद्योपदेश-वैद्यनिरूपितं श्रुत्वा-ऽऽकर्ण्य पश्चात् स वैद्यस्त वैद्योक्तं कर्मप्रतीकाररूपमाचरति-करोतीत्यर्थः । एवमालोचकः मूरिरपि अन्यपार्थे पापं प्रकाशयति । तदर्पितं च तपो यथाविधि प्रतिपद्यते इति । गाथाछन्दः॥ १३ ॥ पुनः सद्गुरुस्वरूपं दर्शयतिदेसं खित्तं तु जाणित्ता, वत्थं पत्तं उवरसयं । संगहे साहुवग्गं च, सुत्तत्थं च निहालई ॥१४॥
व्याख्या-आचार्यों देशं मालवकादिकं, क्षेत्र रूक्षारूक्षभाविताभावितादिरूपं, तु शब्दाद् ग्लानादियोग्य द्रव्यं, दुर्भिक्षादिकालं, दातृपरिणामादिरूपं भावं च ज्ञात्वा वस्त्रं-चीवरं, पात्रं-पतद्ग्रहादि, उपाश्रयं-मुनियोग्यालय, सङ्गण्हीत, कोऽर्थ आचार्यः क्षेत्रादिकारणं ज्ञात्वा वस्त्रादिकं मेलयित्वा प्रायो गृहस्थानामदर्शयन् स्वपार्श्वे एव संरक्षेत्, न तु यथाकथञ्चिदित्यर्थः । यदुक्तं स्थानाङ्गसप्तमस्थाने " आयरियउवज्झायाण गणसि सत्तसंगहठाणा पं० त० आयरियउवज्झाए गणसि आणं वा धारणं वा सम्म पउंजित्ता भवति १, आयरियउवज्झाए गणंसि अहाराइणिआए कितिकम्म देणइअं सम्म पउंजित्ता भवइ २, आयरिय उवज्झाए गणसि जे सुअपज्जवजाए धारेति ते काले काले सम्म अणुप्पवाएत्ता भवइ ३, आयरियउवज्झाए गणसि गिलाणसेहे वेआवच्चं अन् द्वित्ता भवति ४, आयरिय उवज्झाए गणंसि आपुच्छित्तचारी आविहवइणो अणापुच्छित्तचारी ५, आयरियउवज्झाए गणसि अणुप्पन्नाई उवगरणाई सम्म उप्पाएत्ता भवइ ६, आयरियउवज्झाए गणंसि पुन्वुप्पण्णाई उवगरणाई सम्म सारक्खित्ता संगोवित्ता भवति ।” अस्य किश्चिद्व्याख्या यथा-सङ्ग्रहो ज्ञानादीनां शिष्याणां वा तस्य स्थानानि-हेतवः, आज्ञा-साधो ! भवतेदं विधेयमित्येवंरूपामादिष्टि, धारणां-न विधेयमिदमित्येवंरूपां सम्म-औचित्येन १,