SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ कारको ज्ञापकच, तत्र कारको यथा-घटस्य कर्त्ता कुम्भकारः, ज्ञापको यथा-तमसि घटादीनामभिव्यअकः प्रदीपः २७, उपनय-उपसंहारो दृष्टान्तदृष्टस्यार्थस्य प्रकृते योजनमिति भावः, क्वचित् कारणं-निमित्तं २८, नया नैगमादयस्तेषु निपुणः २९, स हि श्रोतारमपेक्ष्य तत् प्रतिपत्त्यनुरोधतः क्वचित् दृष्टान्तोपन्यासं २६, क्वचिद्धेतूपन्यासं विदधाति २७, क्वचित् अधिकतमर्थमुपसंहरति २८, नयप्रस्तावे नयानवतारयति २९ ग्राहणाकुशलः-प्रतिपादनशक्तियुक्तः ३०, स्वसमय परसमयं च वेत्ति परेणाक्षिप्त उभयं निर्वाहयति ३१, गम्भीरो-ऽतुच्छस्वभावः ३२, दीप्तिमान् परवादिनामक्षोभ्यः ३३, शिवो-मारिरोगाद्युपद्रवविघातकृत् ३४, सौम्यः-शान्तदृष्टितया प्रीत्युत्पादकः ३५, गुणशतकलितः-औदार्यस्थैर्याधनेकगुणोपेतः ३६ तैः समन्वागतेन-संयुक्तेन तेनापि-मूरिणाऽपि अन्य आस्तामवश्यं-निश्चयेन कर्त्तव्या, अनुस्वारलोपः प्राकृतत्वात् परसाक्षिकीका विशेषेण शोधिविशोधिनिजपापप्रकटनमित्यर्थः । किं विशिष्टेन सूरिणा सुष्वतिशयेन व्यवहरणं व्यवहारः पञ्चविधः, तत्र कुशलो-निपुणस्तेन । व्यवहारस्वरूपं यथा “आगम १, सुय २, आणा ३, धारणा य ४, जीयं च होइ ववहारो । केवलिमणोहिचोद्दस-दसनवपुब्बी अ पढमत्थो १॥१॥ आयारपकप्पाई, सेसं सव्वं सुयं विणिद्दिह २ । देसंतरट्ठियाणं, गूढपयालोयणा | आणा ३ ॥२॥ गीयत्थाओ पुच्विं, अवधारइ धारणा तहिं दिते ४ । पायच्छित्तं जीय, जीयं वा जं जहिं गच्छे ५॥३॥" अपिशब्दादनेकभव्यानां विधिना दत्ताऽऽलोचनेनापि इति गाथाच्छन्दः ॥ १२॥ केन दृष्टान्तेनाऽऽलोचनां गृहातीत्याहजह सुकुसलो वि विज्जो, अण्णस्स कहेइ अत्तणो वाहिं। विज्जुवएसंसुच्चा, पच्छा सोकम्ममायरइ॥१३॥ व्याख्या-यथा सुष्टु कुशलोऽपि-भिषक्शास्त्रे निषुणोऽपि अपिशब्दाद्वयःप्राप्तोऽपि वैद्यः-चिकित्साकर्ता आत्मनः-स्व RAHANWARYANA
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy