SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ गच्छा वृति : चार ॥१४३॥ तत्र ऋतुबद्धे काले मासकल्पे अपूर्णे त्रिकृत्वो भिक्षाग्रहणलेपानयनादौ कार्ये यतनया गन्तुं कल्पते या वेशी अन्याऽपि नदी तस्यामपि त्रिकृत्वो गन्तुं कल्पते, तथा ' अन्तो मासस्स दुखुत्तो वा' इत्यादि सूत्र व्याख्याति-एरवइ जत्थ चक्किय, तारिसाए नोवहम्मती खेत्तं । पडिसिद्धं उत्तरणं, पुण्णासति खेत्तणुण्णायं ॥१॥ या ऐरावती नदी कुणालाजनपदे योजना विस्तीर्णा जङ्घार्धमानमुदकं वहति, तस्यां केचित्प्रदेशाः शुष्काः न तत्रोदकमस्ति, तामुत्तीर्य यदि भिक्षाचाँ गम्यते, तदा ऋतुबद्ध त्रय उदकसचट्टास्ते च गतागतेन षट् भवन्ति, वर्षासु सप्त दकसंघट्टास्ते च गतागतेन चतुर्दश्च भवन्ति, एवमीदृशे संघट्टप्रमाणे क्षेत्र नोपहन्यते इत एकेनाप्यधिकन सचट्टेनोपहन्यते,अन्यत्रापि यत्राधिकतराः सङ्घट्टास्तत्रोत्तरणं प्रतिषिद्धं पूर्ण | मासकल्पे वर्षावासे वा यद्यनुत्तीर्णानामपरं मासकल्पप्रायोग्यक्षेत्रमस्ति ततो नोत्तरणीयम, अथानुत्तीर्णानामन्यत्क्षेत्रं नास्ति ततोऽसति क्षेत्रे उत्तरणमनुज्ञातम्, इदमेव व्याचष्टे,-सत्त उ वासासु भवे, दगसङ्घट्टा तिण्णि हुति उडुबद्धे ते तु न हणंति खितं, भिक्खायरियं च न इणंति ॥२॥ ये सप्तोदकसङ्घट्टा वर्षासु त्रयः सयट्टाः ऋतुबद्धे साधूनां भवन्ति त एतावन्तः क्षेत्रं नोपघ्नन्ति, न च भिक्षाचर्यामुपध्नन्ति,-जह कारणमि पुण्णे, अंतो तह कारणमि असिवादी । उबहोगहणे लिंपण, नाव य गते पि जयणाए ॥३॥ यथा कारणे पूर्णे मासकल्पे वर्षावासे वा अपरक्षेत्राभावे दृष्टमुत्तरणं तथा मासस्यान्तरप्यशिवादिभिः कारणरुपधेर्वा ग्रहणार्थ लेपानयनार्थं वोत्तरणीयम् , कारणे यत्र नावाऽप्युदकं तीर्यते तत्रापि यतनया सन्तरणीयं तत्र चाय विधिः-नावथललेवहेहा, लेवो वा उवरिए व लेवस्स । दोष्णी दिवढमेक, अद्धं नावाइपरिहाती॥ ४॥ तत्र पूर्वार्द्धपश्चार्द्धपदानां यथासंख्येन योजना नावुत्तरणस्थानाद्यदि वे योजने वर्क स्थलेन गम्यते तेन गन्तव्यम्, न च नौरारोढव्या । ॥१४॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy