________________
TXTENTY FRIFICITRA
सुकंति ॥ १ ॥ पंचानां गङ्गादीनां ग्रहणेन शेषा अपि या महासलिला - बहूदका अविच्छेदवाहिन्यस्ताः सूचिता मन्तव्याः स्याबुद्धिः किमर्थं गङ्गादीनां ग्रहणमित्याह - ' तत्थे'त्यादि येषु गङ्गादयः पञ्च महानद्यो वहन्ति तेषु पुरा साधवो विहृतवन्तो न च ताः कदाचिदपि शुष्यन्ति, अतस्तासां ग्रहण" मित्यादि तथा " अह पुण एवं जाणिज्जा एरवई कुणालाए जत्थ चक्किया एगं पादं जले किच्चा एगं पायें थले किच्चा एव कप्पर अंतो मासस्स दुखुत्तो वा तिखुत्तो वा उत्तरित्तए वा संतरितए वा, एवं नो चक्किया एवण्‡ नो कप्पइ अंतो मासस्स दुखुत्तो वा तिखुत्तो वा उत्तरित्तए वा " इति बृहत्कल्पचतुर्थोद्देशक एव, अस्य वृत्ति:- " अथ पुनरेवं जानीयात् ऐरावती नाम नदी कुणालाया नगर्याः समीपे जङ्घार्द्धप्रमाणेनोत्सेधेन वहति, तस्यामन्यस्यां वा यत्रैवं ' चक्किया' शक्नुयात् उत्तरीतुमिति शेषः कथमित्याह - एक पादं जले कृत्वा एकं पादं स्थलेआकाशे कृत्वा एवमिति वाक्यालंकारे यत्रोत्तरीतुं शक्नुयात् तत्र कल्पते अन्तर्मासस्य द्विकृत्वो वा त्रिकृत्वो वा उत्तरीलङ्घयितुं सन्ततुं भूयः प्रत्यागन्तुं यत्र पुनरेवमुत्तरीतुं न शक्नुयात् तत्र नो कल्पते अन्तर्मासस्य द्विकृत्वो वा त्रिकृत्वो वा उत्तरीतुं वा सन्तरीतुं वा इति सूत्रार्थः । अथ भाष्यकृद्विपमपदानि व्याचष्टे - एरवर जत्थ चक्किय, जलथलकरणे इमं तु णाणतं । एगो जलम्मि एगो, यलम्म पार्यं यलागासं ॥ १ ॥ ऐरावती नाम नदी तस्यां जलस्थलयोः पादकरणेनोत्तरीतुं शक्यम्, इदमेव चात्र नानात्वं यत्पूर्वसूत्रोक्तामु महानदीषु मासान्तद्व त्रीन् वा वारान् न कल्पते, यच्चात्रैको जले एकच पादः स्थले इत्युक्तं तदिह स्थलमाकाशमुच्यते - " एरवइ कुणालाए, विच्छिन्ना अद्धजोयणं वहति । कप्पति तत्थ अपुण्णे, गंतु जा वेरिसी अप्पण्णा ॥ २ ॥ ऐरावती नदी कुणाला नगर्या अदूरे अर्द्ध योजनं विस्तीर्णा वहति, सा चोत्सेधेन जङ्घार्धप्रमाणा,
NAVRYAN