SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ गेहेसु गिहत्थाणं, गंतूण कहा कहेइ काहीआ। तरुणाइअहिवडते, अणुजाणे साइ पडिआ।११५॥ अनयोर्व्याख्या गच्छइ० गेहे० ' याऽऽर्या सविब्बोकं यथा स्यात् तथा सविलासा गतिर्यस्याः सा सविला. सगतिर्गच्छति, तत्र विब्बोकविलासयोर्लक्षणमिदं-इष्टानामर्थानां प्राप्तावभिमानगर्वसम्भूतः । स्त्रीणामनादर कृतो, विब्बोको | नाम विज्ञेयः॥१॥ स्थानासनगमनानां, हस्तभ्रनेत्रकर्मणां चैव, उत्पद्यते विशेषो यः, श्लिष्टः स तु विलासः स्यात् ॥२॥ अन्ये त्वाहुः-विलासो नेत्रजो विकार इति, तथा शयनीयं-पल्यकादिकं तूलिकाञ्च-संस्कृतरूतादिभृतामर्कतूलादिभृतां वा सेवते इति शेषः । तथा या शरीरमुद्वर्त्तयति-तैलादिना अभ्यङ्गयति, तथा या स्नानादीनि च करोति, अथवा सविलासगतिगच्छति तथा शयनीयं तूलिकाञ्च 'सविब्बोति उच्छीर्षकसहितां सेवते, शेषं तथैव,तथा गृहस्थानां गृहेषु गत्वा उपलक्षणत्वादपाश्रयेऽपि स्थिता संयमयोगान्मुक्त्वा या काथिका-कायिकलक्षणोपेता आर्या कथा:-धर्मविषयाः संसारव्यापारविषया वा कथयति । काथिकलक्षणञ्चेदम्-सज्जायादिकरणिज्जे जोगे मोत्तुं जो देसकहाइ कहाओ कहेइ सो काहिओ-"आहारादीणट्टा, जसहेउं अहव पूअणनिमित्तं । तकम्मो जो धम्म, कहेइ सो काहिओ होइ ॥१॥धम्मकहपि जो करेइ आहारादिनिमित्तं वत्थपायादिनिमित्तं जसत्थी वा बंदणादि पूआनिमित्तं वा सुत्तत्थपोरिसिमुक्कवावारो अहो अराओ अ धम्मकहादिपढणकहणवग्गो, तदेवास्य केवलं | कर्म तत्कर्मा, एवंविधो काहिओ भवति, चोअगआह-" नणु सज्झाओ पंचविहो वायणादिगो, तस्स पंचमो भेदो धम्म| कहा, तेण भवसत्ता पडिबुझंति, तित्थे अ अवुच्छित्ती पभावणा य भवति, अतो ताओ निज्जरा चेव भवति, कहं काहिअत्तं | पडिसिज्झइ ? आचार्य आह-"कामं खलु धम्मकहा, सज्झायस्सेव पंचमं अंगं । अव्वुच्छित्ती अ तवो, तित्थस्स पभावणा
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy