________________
लोचयितव्यम् । साम्भोगिकगच्छेऽपि पञ्चानामाचार्यादीनामभावे 'इयर'त्ति इतरोऽसाम्भोगिकः संविग्न इति तस्मिन् गन्तव्यम्, तत्राप्याचार्यादिक्रमेणैवालोचयितव्यम् । संविग्नान्यसाम्भोगिकानां चाभावे 'गीय 'त्ति पदैकदेशे पदसमुदायोपचाराद गीतार्थः, एतच्च विशेषणं पार्श्वस्थसारूपिकपश्चात्कृतरूपाणां त्रयाणामपि योज्यम, ततश्चायमर्थः-पार्श्वस्थस्य गीतार्थस्य समीपे आलोचयितव्यम् । तस्मिन्नपि गीतार्थ पार्श्वस्थेऽसति गीतार्थस्य सारूपिकस्य पार्च संयतवेषस्य गृहस्थस्य लिङ्गमात्रधारिण इत्यर्थः । तस्मिन्नपि गोतार्थसारूपिकेऽसति पश्चात्कृतस्य गीतार्थस्य पार्थे आलोचयितव्यम, पश्चात्कृतचरणस्य-परित्यक्तचारित्रवेषस्य गृहस्थस्य पार्श्व इति यावत् । पार्श्वस्थादीनां च मध्ये यस्य पुरत आलोचना दातुमिष्यते तमभ्युत्थाप्य तस्य पुरत आलोचयितव्यम्, अभ्युत्थापनं नाम वन्दनकमतीच्छनादिकं प्रत्यभ्युपगमकारापणा अभ्युत्थिते वन्दनापतीच्छनादिकं प्रतिकृताभ्युपगमे प्रतिक्रान्तो भवेत् नान्यथा, विनयमूलत्वाद्धर्मस्य । यदुक्तं-'विणओ सासणे मूलं' इत्यादि । अथ ते पार्थस्थादय आत्मानं हीनगुणं पश्यन्तो नाभ्युत्तिष्ठन्ति तदा पार्श्वस्थादीनां निषद्यामारचय्य प्रणाममात्रं कृत्वाऽऽलोचनीयम् । पश्चात्कृतस्य पुनरित्वरसामायिकारोपणं लिङ्गपदानं च कृत्वा यथाविधि तदन्तिके आलोचनीयम् । यदि पार्थस्थादिकोड भ्युत्तिष्ठति तदा तेनान्यत्र गन्तव्यम, येन प्रवचनलाघवं न भवति । तत्र च गत्वा तमापन्नप्रायश्चित्तं शुद्धतपो वाहयति मासादिकमुत्कर्षतः षण्मासपर्यवसानम् । अथ स नाभ्युत्तिष्ठति शुद्धं च तपस्तेन प्रायश्चित्ततया दत्त, ततस्तं तत्रैव तपो बाहयतीति । पार्श्वस्थादीनामप्यभावे यत्र कोरण्टकादौ गुणशिलादौ वा भगवान् मुनिसुव्रतस्वाम्यादिः श्रीवर्द्धमानस्वाम्यादि समयसतस्तत्र तीर्थकरैर्गणधरैश्च बहूनां बहूनि प्रायश्चित्तानि दत्तानि तानि च दोयमानानि तत्रस्थया देवतया दृष्टानि ततस्तत्र