SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ चार गत्वा तत्र च सम्यक्त्वभावितदेवताराधनार्थमष्टमं कृत्वा तत्र च सम्यगाकम्पिताया देवतायाः पुरतो यथोचितप्रतिपत्तिपुरस्सरमालोचयति, सा च प्रयच्छति यथाहै प्रायश्चित्तम् । अथ सा देवता कदाचित् च्युता भवेत् पश्चादन्या समुत्पन्ना तया च न दृष्टस्तीर्थकरस्ततः साष्टमेनाकम्पिता ब्रूते-महाविदेहे तीर्थकरमापृच्छय समागच्छामि, ततः सा तेनानुज्ञाता महाविदेहे गत्वा तीर्थकरं पृच्छति, पृष्ट्वा च समागत्य साध्वादिभ्यः प्रायश्चित्तं कथयति । तासामपि देवतानामभावे अर्हत्यतिमानां पुरतः स्वयं प्रायश्चित्तदानपरिज्ञानकुशल आलोचयति, ततश्च स्वयमेव प्रतिपद्यते प्रायश्चित्तम् । तासामप्यभावे प्राचीनादिदिगभिमुखोऽर्हतः सिद्धानभिसमीक्ष्य जानन् प्रायश्रित्तदान विधिविद्वानालोचयति, आलोच्य च स्वयमेव प्रायश्चित्तं प्रतिपद्यते । स च तथा प्रतिपद्यमानः शुद्ध एव सूत्रोक्त विधिना प्रवृत्तेरिति श्राद्धजीतकल्पे । तथाऽयमर्थः सविस्तरः श्रीव्यवहार प्रथमोदेशकमान्तमूत्रवृत्तावप्यस्ति । तथा नित्यं-सदा कथा चतुर्दाशुभा, तद्विरुद्धा विकथा सप्तधा, तस्यां परायणस्तपरस्तं, कथाविकथास्वरूपं स्थानाङ्गायुक्तं यथा-'चउबिहा कहा, पं० त० अक्वेवणी? विक्खेवणी २ संवेयणी३ निवेयणी ४।' व्याख्या-आक्षिप्यते मोहात्तत्त्वं प्रत्याकृष्यते श्रोता ययेत्याक्षेपणी २, विक्षिप्यते कुमार्गविमुखो विधीयते श्रोता यया सा विक्षेपणी २, संवेद्यते-मोक्षसुखाभिलाषी विधीयते यया सा संवेदनी ३, निर्वद्यते-संसारनिर्विन्नो विधीयते श्रोता यया सा निवेदनी ४ । अर्थतासां भेदा यथा-" आयारे १ ववहारे २, पन्नत्ती चेव ३ दिठिवाए य ४। एसा चउबिहा खलु, कहाउ अक्खेवणो नाम ॥१॥” आचारो-लोचाऽस्नानादिः १, व्यवहारः-कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः २, प्रज्ञप्तिश्चैव-संशयापन्नस्य मधुरवचनैः प्रज्ञापनं ३, दृष्टिवादश्च-श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनं ४, अन्ये वाहुराचारादयो ॥॥१०॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy