________________
चन्द्रवदनासुकुमारस्पर्शलुब्धेन मदनं हन्तुनियुक्ताः सेवकाः, ते मदनं प्रहारैर्जर्जरयन्ति, तलारक्षेदृष्टाः, राज्ञा पार्थ नीता, राज्ञा :पृष्टा नियुक्ताः, केन यूयं पहिताः, तेऽप्यूचुः, महेन्द्रकुमारेण, ततो राज्ञा सम्यग्वृत्तान्तं ज्ञात्वा स देशानिष्काशितः, चन्द्रवदनां लात्वा स गतो विदेशं, मदनो वैद्यैः सज्जः कृतः, राजाऽन्यपुत्राय राज्यं दत्वा प्रव्रज्य मोक्षं गतः, मदनोऽपि तथाविधं स्त्रीचरितं दृष्ट्वा संविग्नः, प्रव्रज्य वैमानिको देवो जातः, चन्द्रवदनामहेन्द्रौ भ्रमन्तौ चौरनिगृहीती, बब्बरकुले विक्रीतौ, तत्र रुधिराकणम्वेदनां सहेते, भवमनन्त भ्रान्तौ । इति स्पर्शनेन्द्रियविषयविपाके महेन्द्रकथा ।५।।
___ तथा विषयविवशत्वेन विनश्यतां पशवोऽपि निदर्शनीभवन्तो दृश्यन्ते । यदुक्तं श्री 'प्रशमरतौ” कलरिभितमधुरगांधर्वतूर्ययोषिद्विभूषणरवाद्यैः। श्रोत्रावबहहृदयो, हरिण इव नाशमुपयाति ॥१॥ गतिविनमेङ्गिताकार-हास्यलीलाकटाक्षविक्षिप्तः । रूपावेशितचक्षुः, शलभ इव विपद्यते विवशः॥२॥ स्नानांगरागवार्तिक-वर्णकधूपाधिवासपटवास। गन्धभ्रमितमनस्को, मधुकर इच नाशमुपयाति ॥३॥ मृष्टान्नपानमांसौ-दनादिमधुररस विषयगृद्धात्मा । गलयन्त्रपाबद्धो मीन इव विनाशमुपयाति ॥४॥ शयनासनसम्बाधन-सुरतस्नानानुलेपनासक्तः। स्पर्शव्याकुलितमति-गजेन्द्र इव बध्यते मूढः॥५॥ एवमनेके दोषाः प्रनष्टशिष्टेष्टदृष्टिचेष्टानाम् । दुनियमितेन्द्रियाणाम् , भवन्ति बाधाकरा बहुशः॥६॥ एकैकविषयसङ्गा-द्रागद्वेषातुरा विनष्टास्ते । किं पुनरनियमितात्मा, जीवः पञ्चेन्द्रियवशात्तः॥७॥ तथा विषयैस्तरवोऽपि विगोपिताः । यतः पठयते“पादाहतः प्रमदया विकसत्यशोकः, शोकजहाति बकुलो मुखसीधुसिक्तः। आलिङ्गितः कुरबकः कुरुते विकाश-मालोकितः सतिलकस्तिलको विभाति ॥८॥इति गाथाछन्दः॥१०॥ एवं शुभाशुभगच्छस्वरूपेऽवगते सति मुनिः किं कुर्यात् ? इत्याह