________________
वृत्तिा
गच्छा चार
॥१२६॥
मनेकभवं भ्रान्तः । इति चक्षुरिन्द्रियविषयविपाके चपलाक्षकथा २।
पद्मखण्डपुरे राजा प्रजापतिः, ज्येष्ठपुत्रस्तस्य गन्धप्रियनामा, यद्यत् सुगन्धिवस्तु तत् २ घ्राणेन्द्रियवशगो जिघ्रति, अन्यदा नद्यां क्रीडति । इतश्चापरमाता तन्मारणाय चूर्णयोगं महारौद्र सुगन्धं पुटिकायां बद्धा सिस्वा पयसि प्रवाहयति, कुमारस्तां दृष्ट्वा गृहाति, वार्यमाणोऽपि गन्धमाघ्राय मृतः, भृङ्गो जातः, ततोऽनन्तं संसारं भ्रान्तः । इति घ्राणेन्द्रियविपाके गन्धमियकथा ३॥
अथ सिद्धार्थपुरे विमला श्रेष्ठी, तस्य रसनेन्द्रियवशगः पुत्रः तिक्तकटुकषायादिरसेषु गृद्धः, प्रत्यहमपूर्वामपूर्वी रसवतीं कारयत्यासवत्या तद्वैयछयेण व्यवसायादि न करोति, अन्यदा स चिन्तयति, भुक्ता मया सर्वे रसाः, परमस्मत्कु- सौ मसमयरस नाद्यापि भुक्तौ, ततो यद्भवति तद्भवतु, परं मद्यमांसादि मया भोक्तव्यमेव, ततो मांसाद्यत्ति, मद्य पिवति, वार्यमाणोऽपि न तिष्ठति, ततः पित्रा कालाक्षरितः देशान्तरे भ्राम्यति, मधुप्रिय इति लोकप्रसिद्धो जातः। अन्यदा रसनेन्द्रियपरवशतया महामांसासक्तो जातः, प्रच्छन्नं लोकानां शिशून् मारयित्वा भक्षयति, दृष्टस्तलारक्षेण, बवा विडम्ब्य शूलायामारोपितः, मृतो नरकादिष्वनन्तं संसारं भ्रान्तः। इति मधुप्रियकथा रसनेन्द्रियविपाके ४। ____अथ विश्वपुरे धरणेन्द्रो राजा, महेन्द्रः पुत्रः, मदनः श्रेष्टिपुत्रो मित्रं, मदनस्य चन्द्रवदना भार्या, साऽन्यदा पतिमित्राय महेन्द्राय गृहागताय स्वहस्तेन ताम्बूलमर्पयति, तस्या हस्तस्पर्श सुकुमारं ज्ञात्वा सोऽध्युपपन्नः, स्पर्शनेन्द्रियपरवशतया ततस्तया सह हास्यं करोति, एवं प्रसङ्गतोऽनाचारमपि सेक्ते स्म । अन्यदा राजा महेन्द्रस्य राज्यं दातुमिच्छति । इतश्च महेन्द्रेण
॥१२६॥