SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ गच्छा चार॥११०॥ देउले वा, उज्जाणे वा अपरिभोगे ॥ १९८ यदि पुनर्विकाल एव प्राप्तास्ततश्च तेषां विकालवेलायां वसतौ प्रविशतां प्रमादकृतो दोषो न भवति, 'पए व पत्त 'त्ति प्रगे वा - प्रत्यूपस्येव प्राप्ताः किन्तु उपाश्रयं न लभन्ते ततः क समुद्दिशन्तु शून्यगृहे देवकुले वा उद्याने वा अपरिभोगे-लोकपरिभोगरहिते समुद्दिशन्तीति क्रियां वक्ष्यति | आवायचिलिमिणीए रणे वा भिए समुद्दिसणं । सभए पच्छन्नासह, कमढगकुरुयाय संतरिया ॥ १९९ ॥ अथ शून्यगृहादौ सागरिकाणामापातो भवति, तत आपाते सति चिलिमिनी - यवनीका दीयते ' रण्णे वत्ति अथ शून्यगृहादि सागारिकाक्रान्तं ततोऽरणे निर्भये समुद्दिशनं क्रियते सभयेऽरण्ये प्रच्छन्नस्य वा असति-अभावे ततो वसिमसमीप एव कमढकेषु शुक्लेन लेपेन सबाह्याभ्यन्तरेषु लिप्तेषु भुज्यते ' कुरुया यत्ति कुरुकुचा - पादप्रक्षालनादिका क्रियते सान्तराः - सावकाशा बृहदन्तराला उपविशन्ति इदानों भुक्त्वा बहिः पुनर्विकाले वसतिमन्विषन्तीत्यादि । गाथाछन्दः ॥ ९६ ॥ अथ गाथात्रयेण कषायानाश्रित्य गणस्वरूपमेवाहजत्थ मुणीण कसाया, जगडिजंता वि परकसाएहिं । नेच्छति समुट्ठेउं, सुनिविट्टो पंगुलो चेव ॥९७॥ व्यख्या- ' जत्थ मु० ' यत्र गच्छे मुनीनां कषायाः परकषायैः 'जगडिज्जंतावित्ति पीडादिकरणेनोदीर्यमाणा अपि समुत्थातुं नेच्छन्ति स्कन्दकाचार्य शिष्या २ र्जुनमालाकार २ दमदन्तादीनामिव ३ स्ववीर्यं दर्शयितुं नोत्सहन्ते अत्र कषायाणां स्वातन्त्र्यविवक्षया कर्तृत्वं यथा उत्पद्यते घट इत्यत्र कुम्भकारेणोत्पाद्यमानस्यापि घटस्य स्वातन्त्र्यविवक्षयैव कर्तृत्वमिति । अत्र दृष्टान्तमाह- 'चेव 'त्ति यथा सुनिविष्टः - सुखोपविष्टः पङ्गुलः - पादविकलः समुत्थातुं नेच्छति - नोत्सहते वृति: ॥११०॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy