SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ यथाऽनया बद्धानि पशुवृन्दानि मर्यादया प्रवर्त्तन्ते तथाऽऽचार्यमेयीबद्धो गच्छोऽपि मर्यादया प्रवर्तत इत्यर्थः, तथाऽऽलम्बनंहस्ताद्याधारस्तत्समानः यथा हस्ताद्याधारो गर्नादौ पतज्जन्तुं धारयति तथाऽऽचार्योऽपि भवगर्ने पतन्तं गच्छं धारयतीत्यर्थः, तथा 'खंभ' ति स्तम्भः-स्थूणा अत्र नपुंसकत्वं प्राकृतत्वादेव तत्समानः यथा स्तम्भः प्रासादाधारः स्यात् तथाऽऽचार्योऽपि गच्छपासादाधारः, तथा 'दिहित्ति दृष्टि:-नेत्रं तत्समानः यथा जन्तोनत्रं शुभाशुभवस्तुपदर्शकं भवति तथाऽऽचार्योऽपि गच्छस्य भाविशुभाशुभप्रदर्शक: स्यात्, तथा 'जाणं सुउत्तम ति यानं-यानपात्रं मूत्तम-अतिप्रधानमच्छिद्रमित्यर्थः, तत्समानो यथाऽच्छिद्रं यानपात्रं समुद्रतीरं नयति जन्तून् , तथाऽऽचार्योंऽपि गच्छं भवतीरं नयति तस्मात्प्रथम, 'तं तु' त्ति तोरेवकारार्थत्वात् तमेवाचार्यमेव परीक्षेत गच्छपरीक्षामिच्छुस्सुधीरिति अनुष्टप् छन्दः॥ ८॥ एवं चात्र ग्रन्थे त्रयोऽधिकाराः सूचिताः तद्यथाआचार्यस्वरूपाधिकारः १ साधुस्वरूपाधिकारः २ साध्वीस्वरूपाधिकारश्च तत्र प्रथममाचार्यस्वरूपाधिकारं निरुपयितुकामः कैश्चिन्हैश्छद्मस्थ उन्मार्गपस्थितमाचार्य परीक्षेतेति प्रश्नयन्नाहभयवं केहि लिंगेहि, सरि उम्मग्गपट्टियं । वियाणिज्जा छउमत्थे, मणी तं मे निसामय ॥९॥ व्याख्या-हे भगवन् !-परमैश्वर्यादिसमन्वित कैलिङ्ग:-चिन्हैरुन्मार्गप्रस्थितं-असन्मार्गस्थितं मूरि-आचार्य, छाद्यते के. बलज्ञानं केवलदर्शनं चात्मनोऽनेनेति छद्म तत्र तिष्ठतीति छद्मस्थो, विजानीयात्-परीक्षेतेति परप्रश्ने गुरुराह-हे मुने ! यैश्चिन्हैराचार्यमुन्मार्गप्रस्थितं छद्मस्थः परीक्षेत, तत् मे-मम कथयत इति शेषः । निसामय' त्ति त्वं निशामया-ऽऽकर्णयेति, अनुष्टुप् छन्दः॥९॥ अथ वृत्तद्वयेन पूर्वोक्तशिष्यप्रश्नोत्तरमेवाह--
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy